Book Title: Shatrunjay Kalp
Author(s): Amrendrasagar, Mahabhadrasagar
Publisher: Jain Agam Mandir Samstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पव०
1 ५२६॥
अनादृत्य भवन्तीं तु साधुभ्यामन्नमादरात् । अदिताथ न तेनैव रुचिरा विधते ननु ॥६४५ ॥ . तदाऽम्बिका भिया कम्प-माना श्वश्रू समीपतः । कृष्णपक्षेन्दुवत् काश्यं बभारानघमानसा ॥ ६४६ ॥ इतः सोमो द्विजान् प्रेत-कृत्यायाऽऽनीतवान् गृहे । पत्नीकृत्यं निशम्याथ तर्जयामास तां प्रियाम् ॥ ६४७ ॥ अम्बिका तर्जिता पत्या श्वश्रा च दूनचेतसा । लात्वा शुभंकरं विभुं-करं मूनुद्वयं तदा ॥ ६४८ ॥ तौ मुनी मानसेऽत्यन्तं स्मरन्ती नेमिनं जिनम् । चचाल रैवतक्षोणी-धरस्य दिशि वेगतः ॥ ६४९ ॥ युग्मम् ॥ मार्गे यान्त्यम्बिका खिन्ना बुभुक्षापिडितौ सुतौ । दर्श दर्श रुरोदेति जल्पन्ती देवतं प्रति ॥ ६५० ॥ रे दैव ! किं मया चक्रे-ऽपराधस्तेऽधुना किल । येनेदृक्षामहं नीताऽवस्थां पुत्रयुता त्वया ॥६५१॥ साधुभ्यां शुद्धमाहारो मया मुक्तिप्रदो ददे । पापं न विहित किञ्चित् किन्तु धर्मः कृतः किल ।। ६५२ ॥ एवं कृते मया पुण्ये साधुदानेन ते किल । यत्ते समे न चित्ते तत् कुरु त्वमपि साम्प्रतम् ॥ ६५३ ॥ जल्पन्त्या इति तस्यास्तु सरो वर्याम्बुपूरितम् । फलिताम्रतरूद्धासि समागाद् दृष्टिगोचरे ॥ ६५४ ॥ एकं पुत्रं कटौ धृत्वा कृत्वाऽन्यं पाणिनाऽन्तिके । अम्बिका त्वरित कान्त-भीता चचाल कानने ॥ ६५५ ॥
पाययित्वा पयः पुत्रौ सरस्याम्रमहीरुहात् । गृहीत्वाऽऽम्रलताद्वन्द्वं पुत्राभ्यामम्बिका ददौ ॥ ६५६ ॥ - पुण्यप्रभावतोऽरण्य-मभूदानलतोदयम् । ध्यायन्ती हृदयेऽचाली-दम्बिका नेमिनं जिनम् ॥ ६५७ ।।
SESLE25252
जनाSSSESS
॥ ५२६॥
For Private and Personal Use Only

Page Navigation
1 ... 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581