Book Title: Shatrunjay Kalp
Author(s): Amrendrasagar, Mahabhadrasagar
Publisher: Jain Agam Mandir Samstha

View full book text
Previous | Next

Page 554
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir शत्रुञ्जय कल्पवृ SSSSSSSSSSS ॥ ५२७॥ इतो ममानमुच्छिष्टं वध्वाऽद्य साधुदानतः । चक्रे ध्यात्वेति गेहान्त-र्ययौ रोषेण पूरिता ॥६५८ ॥ अन्नपूर्णान्यमत्राणि बहिः क्षेप्तुं यदाऽम्बिका । गृहमध्ये ययौ ताव-दपश्यद् रैमयानि सा ॥ ६५९ ।। अध्यासीदम्बिका जैन-साधुदानप्रभावतः । ममागमद् गृहे स्वर्णा-ऽमत्रमेतन् मनोहरम् ॥६६० ।। मुधा मया वृषो जैनो धिक्कृतो मुक्तिशर्मदः । जगद्वन्द्या जगद्ध्येयाः साधवश्वावहीलिताः ॥ ६६१ ॥ अतो मे दुर्गतौ पातो भविष्यति न संशयः । भ्रमिष्यामि च संसारे भवान् भूरितरान् पुनः ॥ ६६२॥ 4. इतः पतिः प्रियां पुत्र-युतां यातां निजालयात् । सद्यो वालयितुं श्रान्त-चेताः पुर्या बहिर्ययौ ॥ ६६३ ।। M पदे पदे प्रियापादौ पश्यन् सोमस्तदाऽचलत् । बने बभ्राम सर्वत्र सोमभट्टस्य गेहिनी ॥६६४ ॥ शब्दयन् पतिः पत्नीति सोमभट्टः पुनः पुनः । आगच्छन् त्वरितं दृष्टोऽम्बिकया कम्पितं ततः ॥ ६६५॥ अध्यासीदम्बिका रुष्टः कान्त एव ममोपरि । आहत्य हस्तपादाद्यैः मां हनिष्यति वेगतः ॥ ६६६ ॥ नाधुना रक्षिता कोऽपि मामत्र वीक्ष्यते बने । दत्ते भूविवरं चेन्मे प्रविशामि तदाऽहकम् ॥ ६६७ ॥ मुनिभ्यां यन्मया दानं दत्तं तच्छरणं मम । ध्यायन्त्या इति तस्यास्तु कूप एकः समागमत् ।। ६६८ ।। भूयासुः शरणं मेऽत्र पञ्चैव परमेष्ठिनः । धर्मो जिनोदितो नेमि-नाथस्य चरणौ पुनः ॥६६९ ॥ स्मरन्तीत्यम्बिका पुत्रौ स्मारयन्ती पदे पदे । पुत्रयुक्ता ददौ झम्पा कूपे तस्मिन् कृतत्वरा ॥६७० ॥ SESESSAGSISISQE5252STAST ॥ ५२७॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581