Book Title: Shatrunjay Kalp
Author(s): Amrendrasagar, Mahabhadrasagar
Publisher: Jain Agam Mandir Samstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृक्ष
॥५३२॥
252525252525252SSESESEASE
यादवो मेघनादाह श्चलम् रैयतके गिरौ । यत्र सिद्धोऽभवत्तत्र तद्विम्यं सद्मसंश्रितम् ॥ ७१३॥ यत्रस्थेन भगवता नेमिनाऽऽलोकितो गिरिः । अबलोकननामाऽभूत् शृङ्गं तन्नेमिविम्बयुग ।। ७१४ ॥ उक्तश्च-"पुण्डरीकगिरेः शृङ्गमेतन्मुख्यं हि काञ्चनम् । मन्दारकल्पवृक्षाचैराहतं तरुभिर्वरम् ॥१॥" सम्पातिनिर्झरेधौंत-पातकं प्राणिनां सदा । स्पर्शतोऽपि महातीर्थ-मेतत्पापं व्यपोहति ॥ ७१५ ॥ पुण्योऽयं पर्वतो वर्यः पृथिव्यास्तिलकोपमः । श्री सर्वज्ञक्रमैः पूतो भाति त्रैलोक्यभूषणम् ॥ ७१६॥ उत्तमः सर्वतीर्थानां सर्वतीर्थफलप्रदः । दर्शनस्पर्शनेनापि दुरितं हन्ति सर्वतः ॥ ७१७ ॥ न्यायोपात्तं धनं येत्र कुर्वते पात्रमङ्गिनाम् । तेषां समृद्धयः सर्वा सम्पद्यन्ते भवे भवे ॥७१८ ॥ अम्बिका निर्जरी यत्र स्थिता पाति च यात्रिकान् । अम्बिकाख्यमभूच्छृङ्गं तदम्बाबिम्बसमयुग् ॥ ७१९ ॥ छत्रं यत्राऽमुचस्कृष्ण-स्तीर्थ नन्तुं समागतः । स्थानस्य तस्य तु छत्र-शिलेत्याहाऽभवत्तदा ॥ ७२० ॥ सहस्रविन्दुरुर्वीशः सहस्रभूपसंयुतः । आत्तदीक्षोऽगमन्मुक्तिं यत्र स्थाने तमःक्षयात् ॥ ७२१॥ सहस्रबिन्दुनामाऽभूत्तस्य स्थानस्य लोकतः । तीर्थ तदपि कल्याण-कमलादायि विद्यते ॥ ७२२ ॥ सहस्राम्रवने नेमि-जिनस्य प्रवरं गृहम् । कारयामास लक्ष्मीशो भूयिष्ठकमलाव्ययात् ॥ ७.३॥ लक्षाम्रकानने नेमि-नाथस्य सदनं महत् । नेमिविम्बयुतं कृष्णः कारयामास रेव्ययात् ॥ ७२४ ।।
52525SG252SSES2525252525
For Private and Personal Use Only

Page Navigation
1 ... 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581