Book Title: Shatrunjay Kalp
Author(s): Amrendrasagar, Mahabhadrasagar
Publisher: Jain Agam Mandir Samstha

View full book text
Previous | Next

Page 570
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir मार्गे यान्तौ बलश्रीशौ जातौ बुभुक्षितौ तराम् । हस्तिका पुरोद्याने जग्मतुः कर्मयोगतः ॥ ८२० ।। मुक्त्वा कृष्णं बने भक्ता-नयनाय पुरान्तरे । गतो बलो निरुद्धस्तत् पुरेशेनारिणा द्रुतम् ॥ ८२१ ॥ युद्धं कुर्वन् बलस्तेना-रिणा सार्द्ध पुरान्तिके । सिंहनादं तथा चक्रे यथा तत्राऽगमद्धरिः ॥ ८२२ ॥ बलकृष्णौ रिपुं जित्वा तस्मिन्नेव पुरान्तरे । बुभुजाते ततोऽटव्यां जग्मतुनिर्भयौ तदा ॥ ८२३ ।। शत्रुञ्जयता लग्नतृषोहरिर्गच्छन् बलं च जलहेतवे । प्रेष्य स्वयं तु सुष्वाप वसनाच्छादिताननः ॥ ८२४ ॥ कल्पवृ. इतो भ्रमन् मृगव्येन वने तत्र जराङ्गजः । मृगबुद्धया न्यहन् कृष्णं बाणेन चरणे दृढम् ॥ ८२५ ॥ उत्थायाऽथ हरिः प्राह हतोऽहं केन पत्रिणा । वृक्षान्तरे स्थितो जज्ञौ जरासूनुर्ह रेवचः ॥ ८२६ ।। आगत्य सोदरस्याची नत्वा जरासुतो जगौ । मया मृगधिया त्वं तु हतः पापात्मनाऽधुना ॥ ८२७ ॥ द्वादशाब्दीमहं दूर-देशेऽस्थां ते मृतेभिया । पापात्मना मयाऽद्य त्वं हतो दुर्गतिहेतवे ॥ ८२८ ॥ कृष्णो जगौ न छुटयेत कर्मतः कोऽपि केनचित् । जरासूनो ! वजाह्वाय दूरे ब्रजतु साम्प्रतम् ॥ ८२९॥ II ५४३॥ गतोऽम्बुनो( धुना )बलोऽत्रैतो मां त्वया निहतं यदि । ज्ञास्यति त्वां तदा सद्यो हनिष्यति सहोदर ! ॥८३०॥ क्षमयित्वा ततः कृष्णं सद्यो जरासुतो ययौ । यावद्धरिम॒तस्तावत्तृतीय नरकं ययौ ॥ ८३१ ॥ यतः-' एगो य सत्तमाए पंच य छट्ठीइ पंचमी एगो। एगो य चउत्थीए कण्हो पुण तच्चपुढवीए ॥१॥" 252525252525252 SISESEITSS125 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 568 569 570 571 572 573 574 575 576 577 578 579 580 581