Book Title: Shatrunjay Kalp
Author(s): Amrendrasagar, Mahabhadrasagar
Publisher: Jain Agam Mandir Samstha

View full book text
Previous | Next

Page 578
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsun Gyanmandir शत्रुञ्जय कल्पवृ० ॥ ५५१ ॥ 525252TS225252525 www.kobatirth.org बिना तपो बिना दानं विनाऽचर्चा शुभभावतः । केवलं स्पर्शनं सिद्ध क्षेत्रस्याक्षयसम्पदाम् ॥ ९११॥ शत्रुञ्जयसमं तीथ मादिदेवसमः प्रभुः । जीवरक्षासमो धर्मो नास्ति विश्वत्रये परः ॥ ९१२ ॥ श्रुत्वेति भूपतिभूरि-संघलोकसमन्वितः । शत्रजये जिनं नन्तुं कुर्वन्महोत्सवं ययौ ।। ९१३ ॥ पुष्परादौ युगादीश-मर्चयित्वा सविस्तरम् । आरात्रिकं च मङ्गल-दीपकं च व्यधान्नृपः ॥ ९१४ ॥ ततश्च स्वामिनः पादौ प्रणम्य च प्रपूज्य च । वर्द्धयामास भूपालः प्रियालु मणिभिर्वरः ॥ ९१५॥ तत्र श्रीगुरुपादान्ते धर्म श्रोतुं ययौ नृपः । यदा तदा जगादति माहात्म्यं तस्य भूभृतः ॥ ९१६ ।। अत्र तीर्थे तपो यच्च क्रियते प्राणिभिर्मनाग । तन्मुक्तिफलसङ्घातैः फलति क्षमापतेऽचिरात् ॥९१७ ॥ न रोगा न च सन्तापो न दुःखं न वियोगिता । न दुर्गतिन नाशश्च पुंसां शत्रञ्जयस्पृशाम् ॥ ९१८ ॥ दीक्षां लात्वा तपो योऽत्र कुरुने शुभभावतः । तस्याशु जायते मुक्ति-सातं तनुभृतो नृप ! ॥९१९ ।। श्रुत्वैतन्नृपतिः पुर्या समेत्य निजमनवे । दत्त्वा राज्यं गुरूपान्ते ललौ दीक्षां शिवप्रदाम् ॥ ९२० ॥ क्रमात् सूरिपदं प्राप्य भूरिसाधुनिसेवितः । शत्रुञ्जये ययौ चन्द्र-शेखरसूरिराट् क्रमात् ।। ९२१ ॥ तत्र तीनं तपः कृत्वा केवलज्ञानमादरात । आसाद्य निति यातो भृरिसाधुसमन्वितः ॥ ९२२ ॥ + इति श्रीकृष्णचरिते नेमिनाथसम्बन्धगुंफितमाम्बाम्नप्रमुख-श्रीकृष्णनरकगमनस्वरूपं समाप्तम् + OSSZSZSZS2252STISSESESESS womarwarmanand For Private and Personal Use Only

Loading...

Page Navigation
1 ... 576 577 578 579 580 581