Book Title: Shatrunjay Kalp
Author(s): Amrendrasagar, Mahabhadrasagar
Publisher: Jain Agam Mandir Samstha

View full book text
Previous | Next

Page 572
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रुजय कल्पवृ० HESESESESESSESEPSESSESE अतः परं मयाऽऽहारो निरवद्यो वनान्तरे । गृहीतव्योऽन्यथा भूया-दुपवासो निरन्तरम् ॥ ८४४ ॥ तपस्यतो मुनेस्तस्य साम्यभाजोऽनुभावतः । व्याघ्रसिंहादयः सेवां कुर्वते श्वापदाः सदा ॥ ८४५ ॥ पूर्वसंसारसम्बन्धी कश्चिदेको मृगो बने । हल्यः शिष्यवत् सर्व करोति स्म पदोस्तले ॥ ८४६ ॥ यदा तत्र वने कोऽपि सार्थो जिमति तत्र च । ऋषि नीत्वा सदा प्रत्य-लाभयत पारणे मृगः ।। ८४७ ॥ अन्यदा स मृगस्तं च मासक्षमणपारणे । काष्टहेत्वागताऽनःकृत-पार्थेऽनेपीत् स्वसंज्ञया [मृगः ] ॥ ८४८ ॥ ऋषि भिक्षाकृते तत्रा-गतं निरीक्ष्य मूत्रकृत । मुक्त्वा छिन्नाईशाखाकं वृक्षं दानोत्सुकोऽभवत् ।। ८४९ ॥ ददानो रथकद्दानं यतये ध्यातवानिति । मदीयं विद्यते भाग्य-मीटक्साध्वन्नदानतः ।। ८५० ॥ साधुर्दध्यौ तदा भाग्यं विद्यते च ममाधुना । यतो मे प्रासुकान्नस्य प्राप्तिर्वर्याधुनाऽजिता ॥ ८५१ ॥ मृगो दध्यो ममान्नं चेत् प्रासुकं भवतीदृशम् । तदाऽहं साधुमीदृशं प्रत्यलाभयमादरात् ॥ ८५२ ॥ तदाऽहं साधवे दानं ददामीदृक्षमादरात् , पाठान्तरेएवं चिन्तयतां तेषां मुन्यादीनां तदात्मनि । अकस्मान्मस्तके वृक्ष-शाखाऽपतन्महत्तमा ।। ८५३ ॥ त्रयाणामपि तेषां तु प्राण-त्यागात्तदाऽभवत् । उत्पत्तिः पञ्चमे स्वर्गे एकस्मिन् स्थानके समम् ॥ ८५४ ॥ "अदंतकडा रामा एगो पुण वंभलोयकप्पंमि । उववन्नो तत्थ भोए भोत्तुं अयरोवमा दस उ ॥१॥ DSZSSPSSTSESESSZISZS:S2SC For Private and Personal Use Only

Loading...

Page Navigation
1 ... 570 571 572 573 574 575 576 577 578 579 580 581