Book Title: Shatrunjay Kalp
Author(s): Amrendrasagar, Mahabhadrasagar
Publisher: Jain Agam Mandir Samstha

View full book text
Previous | Next

Page 564
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रुजय कल्पवृ० Aam ॥५३७॥ 25255TSTZSPSS252525252T श्रीतीर्थपान्थरजसा विरजीभवन्ति, तीर्थेषु बंभ्रमणतो न भवे भ्रमन्ति । तीर्थेश्वरार्चनकृतो जगदर्चनीया-स्तीर्थव्ययादिह नराः स्थिरसम्पदः स्युः ॥७५७ ॥ श्रुत्वेति तीर्थमाहात्म्यं रैमयान् जिनपालयान् । आदौ पश्चशती कृष्णः कारयामास मोदतः ॥७५८ ॥ यात्रां शत्रुञ्जये कर्तुं सर्वान् देवालयान् क्रमात् । रथारूढान् व्यधात् कृष्णः शोभते वासरे किल ।। ७५९ ॥ काष्ठात्मकान् सहस्रं तु शतानि सप्त च क्रमात् । कारयामास कंसारि भूयिष्ठविभवव्ययात् ।। ७६० ।। सम्प्रेष्य भूरिदेशेषु बह्वीः कुंकुमपत्रिकाः । सङ्घमाकारयामास कृष्णः शोभनवासरे ॥ ७६१ ।। नृणां कोट्यश्चतुर्विंश-प्रमाणा भूधवादयः । मिलिता वृषभं देवं नन्तुं सङ्घो हरेस्तदा ॥ ७६२ ।। ग्रामे ग्रामे पुरे पुर्या श्रीजिनेश्वरसद्मसु । पूजोत्सवं वितन्वानः कृष्णः सङ्घयुतोऽचलत् ॥७६३ ॥ क्रमाच्छत्रुञ्जये गत्वा चक्रे स्नात्रमहोत्वम् । विस्तरान्मुख्यसर्वज्ञ गेहे कृष्णनरेश्वरः ॥ ७६४ ॥ ततो राजादनी मुक्ता-फलैरामलकोपमैः । मुदा वर्धापयामास त्रिःप्रदक्षिणया हरिः ॥ ७६५ ॥ पुष्पर्मनोहरैः स्वामि-पादुके मुक्तिशर्मदे । कंसारिः पूजयामास भूरिसङ्घसमन्वितः ॥ ७६६ ॥ ततः सर्वेषु सर्वज्ञ-गेहेषु श्रीजिनाधिपान् । अर्चयामास कंसारिः पुत्रपत्न्यादिसंयुतः ॥ ७६७ ॥ ततो रमाधवोऽभ्येत्य वरदत्तगुरोर्मुखात् । माहात्म्यं सिद्धशैलस्य सुश्रावेति कृतादरम् ॥ ७६८ ॥ 52S:STASSESSESESS52SSES ॥५३७॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581