Book Title: Shatrunjay Kalp
Author(s): Amrendrasagar, Mahabhadrasagar
Publisher: Jain Agam Mandir Samstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ०
25SZSRSISESESESZSZSESE
अस्मिन् नेमौ स्थितो गर्भे शिवा माता वराशया । चतुर्दश महास्वप्नान सुखसुप्ता ददर्श सा ॥ ५४३ ॥ तेनासौ न हि राज्यार्थी दीक्षार्थी नेमिरस्ति च । दृश्यतेऽस्य मनो नित्यं निस्पृहं शिवशर्मणि ॥५४४ ॥ असौ नेमिकुमारस्तु द्वाविंशो जिननायकः । तीर्थ चतुर्विधं स्थाप-यिष्यति शिवशर्मणे ॥ ५४५ ॥ कृष्णेन स्वबलावलोकनकृते बाहुं तिरोनामितं, प्रोदण्डं निजलीलया व्यनमयत् स्वं नालनामं तदा । यद् बाहुं नमयन्नयं पुनरभूत् पादोज्झितोर्वीतलः, शाखालम्बितकीरवत् स जयतात् त्वं विश्वविश्वाद्भुतः ॥५४६॥ श्रुत्वैतद् बलभद्रस्य वचस्तत्र जनार्दनः । हृष्ट सन्मान्य नेमि तु निजावासे समीयिवान् ॥ ५४७ ॥ यतः-एवं बलोक्तमाकर्ण्य भिन्नसंशय आशये । स्वागसः क्षमयामास नेमिमालिङ्गयन् हरिः ॥ ५४८ ॥ द्वास्थायुधगृहाध्यक्षा-नाकार्यादिशदच्युतः । निषेध्यो न हि कुत्राप्या-गच्छन् यान् नेमिरेष हि ॥ ५४९ ॥ शिवा वक्ति मुकुन्दस्य पुरतो नेमिनन्दनः । बोधनीयस्तथा कन्यां यथाऽङ्गीकुरुतेतराम् ॥ ५५० ॥ भो गोपिका ! भवन्तीभिस्तथा बोध्योऽङ्गजो मम । यथाऽसौ वृणुते कन्या-मित्याचष्ट शिवा तदा ।। ५५१॥ वत्सोद्वाह कनी माता यदाऽऽहाऽवग् तदा सुतः । कन्यां योग्यां यदा लप्स्येऽङ्गीकरिष्ये तदाऽम्ब ! ताम् ॥५५२॥ *"वत्स ! त्वं कुरु नः प्रमोदविधये वीवाहमेवं यदा, प्रोक्तं श्रीशिवयाऽम्बया जिनमतोऽवादीस्त्वमेवं तदा । योग्यामम्ब ! कनीमहं ननु यदा लप्स्ये वरिष्ये तदेत्युक्ता मोदयदंबिका गुरुतरं तत्ते गुरुत्वं गुरोः ॥१॥"
SPSS2TS25T52SPSPSESSTE
mmmmmmmmmmmmmmmmmmmmmmmmmmmmm
॥५१६॥
For Private and Personal Use Only

Page Navigation
1 ... 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581