Book Title: Shatrunjay Kalp
Author(s): Amrendrasagar, Mahabhadrasagar
Publisher: Jain Agam Mandir Samstha

View full book text
Previous | Next

Page 546
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शत्रुञ्जय कल्पवृ० EGESSESISESSESSETTE उग्रसेनो जगौ गेहा दिकं सर्व तवास्ति च । मां किं प्रक्ष्यसि लक्ष्मीश ! यथारुचि विधीयताम् ॥ ५७९ ॥ ततो नैमित्तकं सद्य आकार्य कमलापतिः । श्रावणश्वेतषष्ठयां तु ललौ लग्नं समीपतः ॥५८० ॥ ततो यदुनिकेतेषु मधुरैर्धवलारवैः । गायन्त्यो योषितः श्रुत्वा श्रोतुं लोकाः समाययुः ॥ ५८१ ॥ मुकुन्दो द्वारकापुर्या-मुद्वाहासन्नवासरे । प्रत्यदृ च प्रतिद्वारं तोरणालीमकारयत् ॥ ५८२ ॥ शृङ्गारितेषु सर्वेषु सज्जनेषु मुरारिणा । दीयते स्वन्नपानादींस्तेभ्योऽप्यादरपूर्वकम् ॥ ५८३ ॥ कर्पूरगन्धधूल्यादि-वासितैर्वारिभिर्वरः । स्नपयित्वा प्रभुं गोप्यः प्रददुर्धवलानि तु ॥५८४ ॥ स्नानान्ते दिव्यवसनैः परिधाप्याऽथ नेमिनम् । गोप्यः सिंहासने वर्ये सद्यो न्यवीवशन् मुदा ॥ ५८५॥ उग्रसेनालये गत्वा कोसुम्भी वधूटिकां वराम् । राजिमत्यै ददौ कृष्णः सद्यः सन्मानपूर्वकम् ॥ ५८६॥ अथ लग्नक्षणे श्वेत-वस्त्राभरणभूषितः । गोशीर्षचन्दनालिप्त-तनु: स्वामी विराजते ॥ ५८७ ।। चामरैर्वीज्यमानो स्व-धृतछत्रोलसच्छिरा । नेमिरारूढवान् वय-ग्थं मन्मथसन्निभः ।। ५८८ ॥ युग्मम् ॥ यदूनां कोटिभिर्वर्य-कुमारैः सदृशै रयात् । कृष्णादिभिर्नरेन्द्रैश्च नेमिः परिवृतोऽभितः ॥ ५८९ ॥ उच्चार्यमाणैर्धवलै नृत्यद्भिर्नर्त्तकैनैः । पठद्भिर्वन्दिभिर्वाद्य-मानै स्तूर्येरनेकशः ॥ ५९० ॥ दृश्यमानोऽक्षिको टिभि-वर्ण्यमानो विचक्षणः । बर्दाप्यमानो नारीभिः नेमिनाथः पदे पदे ॥ ५९१ ।। ASSESESSESSSSSSES Romantharaman For Private and Personal Use Only

Loading...

Page Navigation
1 ... 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581