________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शत्रुञ्जय
कल्पवृ०
EGESSESISESSESSETTE
उग्रसेनो जगौ गेहा दिकं सर्व तवास्ति च । मां किं प्रक्ष्यसि लक्ष्मीश ! यथारुचि विधीयताम् ॥ ५७९ ॥ ततो नैमित्तकं सद्य आकार्य कमलापतिः । श्रावणश्वेतषष्ठयां तु ललौ लग्नं समीपतः ॥५८० ॥ ततो यदुनिकेतेषु मधुरैर्धवलारवैः । गायन्त्यो योषितः श्रुत्वा श्रोतुं लोकाः समाययुः ॥ ५८१ ॥ मुकुन्दो द्वारकापुर्या-मुद्वाहासन्नवासरे । प्रत्यदृ च प्रतिद्वारं तोरणालीमकारयत् ॥ ५८२ ॥ शृङ्गारितेषु सर्वेषु सज्जनेषु मुरारिणा । दीयते स्वन्नपानादींस्तेभ्योऽप्यादरपूर्वकम् ॥ ५८३ ॥ कर्पूरगन्धधूल्यादि-वासितैर्वारिभिर्वरः । स्नपयित्वा प्रभुं गोप्यः प्रददुर्धवलानि तु ॥५८४ ॥ स्नानान्ते दिव्यवसनैः परिधाप्याऽथ नेमिनम् । गोप्यः सिंहासने वर्ये सद्यो न्यवीवशन् मुदा ॥ ५८५॥ उग्रसेनालये गत्वा कोसुम्भी वधूटिकां वराम् । राजिमत्यै ददौ कृष्णः सद्यः सन्मानपूर्वकम् ॥ ५८६॥ अथ लग्नक्षणे श्वेत-वस्त्राभरणभूषितः । गोशीर्षचन्दनालिप्त-तनु: स्वामी विराजते ॥ ५८७ ।। चामरैर्वीज्यमानो स्व-धृतछत्रोलसच्छिरा । नेमिरारूढवान् वय-ग्थं मन्मथसन्निभः ।। ५८८ ॥ युग्मम् ॥ यदूनां कोटिभिर्वर्य-कुमारैः सदृशै रयात् । कृष्णादिभिर्नरेन्द्रैश्च नेमिः परिवृतोऽभितः ॥ ५८९ ॥ उच्चार्यमाणैर्धवलै नृत्यद्भिर्नर्त्तकैनैः । पठद्भिर्वन्दिभिर्वाद्य-मानै स्तूर्येरनेकशः ॥ ५९० ॥ दृश्यमानोऽक्षिको टिभि-वर्ण्यमानो विचक्षणः । बर्दाप्यमानो नारीभिः नेमिनाथः पदे पदे ॥ ५९१ ।।
ASSESESSESSSSSSES
Romantharaman
For Private and Personal Use Only