________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
शत्रुजय कल्पवृ०
PISTOSTSZST SISOSLASTIC
यतः- वसन्ते विविधाः क्रीडा गोपिकागणमध्यगः । चकार निर्विकारस्तु सविकार न मानसम्' ॥ ५६६ ॥ नेमिर्दध्यौ रुषमेषा विधाय स्थास्यति स्वयम् । तेन मौनव्रतं श्रेय इदानीं मम निश्चितम् ॥ ५६७ ॥ * आत्मनो मुखदोषेण वध्यन्ते शुकसारिकाः । बकास्तत्र न वध्यन्ते मौनं सर्वार्थसाधकम् ॥५६८ ॥5 नेमिना विहिते मौने सत्यभामा जगावदः । पाणिग्रहमसौ मेने देवरो नेमिनायकः ॥ ५६९ ॥ तदा गोप्योऽखिला प्रोचु-वयं जातमिदं खलु । यतोऽसौ देवरः पाणि-ग्रहणं च करिष्यते ॥ ५७० ।। मया न मानितं ह्येतद् यद्येवं च बदाम्यहम् । तदैताभिः प्रजल्प्पेत देवरोऽसत्यवागयम् ॥ ५७१ ।। एवं मौने कृते तत्र कुमारेण जनार्दनः । नेमिनं गजमारोप्य सप्रियो गृहमाययौ ॥५७२ ॥ नेमिर्मातुः पितुः पार्चे गत्वाऽऽचष्ट रमापतिः । कन्यापाणिग्रहोऽमानि नेमिना मदचच्छलात् ॥५७३ ॥ मत् प्रियोदितान् .......... ॥५७४ ॥ समुद्रविजयश्रीश-शिवाः प्रोचुर्वरां कनीम् । विलोक्य कार्यते पाणि-ग्रहं नेमिरयं क्षणात् ॥ ५७५ ॥ भामा तदा जगौ राजीमती मे भगिनी कनी । योग्याऽस्ति नेमिनो रूप-लावण्यसम्पदा स्फुटम् ॥ ५७६ ॥ शिवाया रुचितं ज्ञात्वा यदोग्रसेनसद्मनि । कृष्णो गतस्तदाऽमानि तेन विष्टरदानतः ॥ ५७७ ॥ कृष्णोऽवग् भवतो राजी-मती पुत्री तु विद्यते । तेन नेमिकुमारेण सहोद्वाहश्च कार्यते ॥५७८ ॥
TELSESPS2525252SSESESOSTS
For Private and Personal Use Only