Book Title: Shatrunjay Kalp
Author(s): Amrendrasagar, Mahabhadrasagar
Publisher: Jain Agam Mandir Samstha

View full book text
Previous | Next

Page 532
________________ Shri Mahavir Jain Aradhana Kendra शत्रुज्जय कल्पवृ● ॥ ५०५ ॥ 25 25 25 25 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समुद्रविजयो भूपो नवसोदरसंयुतः । प्रतापी विद्यतेऽन्येऽपि यादवाः कोटिसम्मिताः ॥ ४११ ॥ हट्टश्रेणौ मणीनां तु राशीन् कैलाससोदरान् । वीक्ष्य शैस्ततेऽम्भोधि - मणिशेषोऽधुनाऽभवत् ॥ ४१२ ॥ स्थाने स्थाने तु कल्याण-पुञ्जान् प्रौढतरान् बहून् । स्वर्णद्वीपः किमत्रागाद् वीक्ष्येति चिन्त्यते बुधैः ॥ ४१३ ॥ दुकूलसञ्चयान् भूरीन् स्थाने स्थाने निरीक्ष्य तु । लोकाः प्रोचुर्जगत् सर्व- दुकूलान्येयुरत्र तु ॥ ४१४ ॥ कृष्णनामश्रुते जीवयशा एत्य पितुः पुरः । जगाद तव जामातु- र्हन्ता सम्प्रति जीवति ॥ ४१५ ॥ तेन मे विद्यते शल्यं दुःखं कुर्वन् दृढे हृदि । तत् कर्षयाऽधुना तात ! नो चेन्मृतास्म्यहं द्रुतम् ॥ ४१६॥ जरासन्धो जगौ सर्वे यादवाः कृष्णसंयुताः । प्रविश्याग्नौ मृति जग्मुरतो मा त्वं कराऽसुखम् ॥ ४१७ ॥ इतस्तत्र समागत्य वणिजोऽप्यपरे पुनः । जरासन्धनृपस्याग्रे ऽमुञ्चन् स्थालं मणीभृतम् ॥ ४१८ ॥ सन्मान्य तान् नृपोऽप्राक्षीद् रत्नानीदृशि कुत्र नु ? । विद्यन्ते च कुतः स्थाना-दानीतानि निवेद्यताम् ॥ ४१९ ॥ रत्नानि चन्द्रमार्त्तण्ड - विम्बाभानि त्विषाम्भरैः । स्फारामलकमानानि मौक्तिकानि शुभानि च ॥ ४२० ॥ दर्शयित्वा नृपस्योचु-र्वणिजो विनयाश्रितम् । अपश्चिमाब्धितटे द्वारवत्यस्ति नगरी वरा ॥ ४२१ ॥ युग्मम् ॥ तत्र कृष्णाभिधो राजा सर्वयादवपुङ्गवः । पालयन्न्यायतो राज्यं रामं स्मारयति प्रजाः ॥ ४२२ ॥ . समुद्रविजयो राजा नवसोदरसंश्रितः । प्रीतिमान् विद्यतेऽत्यन्तं लोकेषु निखिलेष्वपि ॥ ४२३ ॥ For Private and Personal Use Only 252525252525252525 ॥ ५०५ ॥

Loading...

Page Navigation
1 ... 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581