Book Title: Shatrunjay Kalp
Author(s): Amrendrasagar, Mahabhadrasagar
Publisher: Jain Agam Mandir Samstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
शत्रुञ्जय
कल्पवृ०
॥ ५०९ ॥
525252
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणादुत्थाय भीमं तं तथा शिरस्यताडयत् । जरासन्धो यथा वायुपुत्रोऽवनितलेऽपतत् ॥ ४६२ ॥ तदाऽर्जुनो जरासन्धमताडयत् तथा शरैः । यथा शक्नोति नो वाणं संधितुं कार्मुके मनाग् ॥ ४६३ ॥ एकोनसप्ततिं पुत्रान् जरासन्धस्य युध्यतः । अवधीद् रुक्मिणीनाथ स्ततश्च नव सप्त च ॥ ४६४ ॥ प्रन्यदा च सुप्त-प्रायां वीक्ष्य हरिर्जगौ । भो नेमे ! स्वं बल सुप्तं किं नोतिष्ठति साम्प्रतम् ? ॥ ४६५ ॥ नेमिः प्राह जरा विद्या मुक्ता मगधभूभुजा । तेनात्मीयं बलं सुप्त - मिवाऽशेषं विलोक्यते ॥ ४६६ ॥ शान्तिकादिषु भूयिष्ठो - पचारेषु कृतेष्वपि । यदोत्तिष्ठति नो चक्रं तदाऽऽह नेमिमच्युतः ॥ ४६७ ॥
त्वं विज्ञोऽसि कृपास्त्वं नेमे ! जल्प यथाऽधुना । यथा स्वं शिविरं सर्वं जायतेऽत्र सचेतनम् ॥ ४६८ ॥ नेमिर्जगाविह क्षोणी मध्ये पाइर्वजिनेशितुः । बिम्बमंस्त्यहिनाथाच्यं सुप्रभावं शिवप्रदम् ।। ४६९ ।। उपवासत्रयप्रान्ते तुष्टः पातालनायकः । तुभ्यं दास्यति लक्ष्मीश ! बिम्बं पाइर्वजिनेशितुः || ४७० ।। तस्य स्नात्राम्बुना सेनाऽभिषिक्ता निखिला लघु । उत्थास्यति यतोऽस्यास्ति प्रभावः प्रबलो भुवि ॥ ४७१ ॥ नेम्युक्तकरणात् पार्श्व-विम्बस्य स्नात्रवारिणा । अभिषिक्तं बलं कंस- शत्रुणोत्थितमञ्जसा ॥ ४७२ ॥ तत्र स्थाने मुकुन्देन प्रासादः कारितो महान् । तस्मिन्निवेशितं पार्श्व नाथविम्बं च सूत्सवम् ॥ ४७३ ॥ स्थापयित्वा पुरं तत्र व शङ्खेश्वराभिधम् । अपूरयत्तथा शङ्ख कृष्णोऽरेर्भी - रोभीर्यथाऽजनि ॥ ४७४ ॥
For Private and Personal Use Only
5255255252525525525525525
॥ ५०९ ॥

Page Navigation
1 ... 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581