Book Title: Shatrunjay Kalp
Author(s): Amrendrasagar, Mahabhadrasagar
Publisher: Jain Agam Mandir Samstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirtn.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पवृ०
ISESTSTSTSESTES7252SSES
जल्पन्तमिति मगधा-धीशं प्राह जनार्दनः । हत्वा त्वामहं समागां तु पाताऽस्मि न्यायमार्गतः ॥ ४८८ ॥ मुश्च चक्रं जरासन्ध ! मा विलम्ब कुरु त्वकम् । इदं चक्रं ममेदानी-मनुकूलं भविष्यति ॥४८९॥ क्रुद्धस्ततो जरासन्धो भ्रामयित्वा शिरोऽभितः । कल्पान्तानलबद् भीदं चक्रं मुमोच तं प्रति ॥ ४९०॥ . चक्रं प्रदक्षिणीकृत्य कृष्णस्य सुकृतोदयात् । अलञ्चके शयं विद्युत्-पुञ्जवद्धरणीधरम् ॥ ४९१ ॥ स्वमर्द्धचक्रिणं कृष्णो जानन सुस्वप्नसूचनात् । भ्रामयित्वाऽभितः शीर्ष (धनं ) प्राहेति वैरिणं प्रति ॥ ४९२ ॥ चक्रं मम शये तस्थौ तव सैन्यं हतं बहु । यद्यद्यापि श्रय त्वं मां चक्रं मुञ्चामि नो तदा ॥ ४९३ ॥ जरासन्धो जगौ चक्रं ममेदं विद्यते हरे !। तेन मे च न किमपि विघ्नमत्र करिष्यति ॥ ४९४ ।। कृष्णमुक्तं तदा चक्रं जरासन्धस्य मस्तकम् । तथाऽछिन्दद् यथा सद्यो जरासन्धो मृतिं गतः ॥ ४९५ ।। जरासन्धो हतः कंस-द्विषा चक्रेण तत्क्षणात् । जगाम नरकं तुर्य नानादुःखप्रदायकम् ॥ ४९६ ॥ * यतः-" एगो य सत्तमीए पंच य छट्ठीइ पंचमी एगो । एगो य चउत्थीए कण्हो पुण तञ्चपुढवीए ॥१॥" जीयाद्वेष मुराराति-श्चिरं वासवविक्रम ! । इत्युक्त्वा ववृषुर्देवाः पुष्पौधं तस्य मस्तके ॥४९७ ॥ इतो मगधनाथस्य सहदेवमुखाः सुताः । एत्य नेमुर्मुराराति मुक्त्वा प्राभृतमद्भुतम् ॥ ४९८ ॥ मुकुन्दो विनयात्तेषां तुष्टो राजगृहेशताम् । तेभ्यो ददौ लसन्मान-दानपूर्व तदाऽचिरात् ॥ ४९९ ॥
CISSISSESESPSSPSSTS:STST
॥५१॥
For Private and Personal Use Only

Page Navigation
1 ... 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581