SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुञ्जय कल्पवृ० ॥ ५०९ ॥ 525252 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षणादुत्थाय भीमं तं तथा शिरस्यताडयत् । जरासन्धो यथा वायुपुत्रोऽवनितलेऽपतत् ॥ ४६२ ॥ तदाऽर्जुनो जरासन्धमताडयत् तथा शरैः । यथा शक्नोति नो वाणं संधितुं कार्मुके मनाग् ॥ ४६३ ॥ एकोनसप्ततिं पुत्रान् जरासन्धस्य युध्यतः । अवधीद् रुक्मिणीनाथ स्ततश्च नव सप्त च ॥ ४६४ ॥ प्रन्यदा च सुप्त-प्रायां वीक्ष्य हरिर्जगौ । भो नेमे ! स्वं बल सुप्तं किं नोतिष्ठति साम्प्रतम् ? ॥ ४६५ ॥ नेमिः प्राह जरा विद्या मुक्ता मगधभूभुजा । तेनात्मीयं बलं सुप्त - मिवाऽशेषं विलोक्यते ॥ ४६६ ॥ शान्तिकादिषु भूयिष्ठो - पचारेषु कृतेष्वपि । यदोत्तिष्ठति नो चक्रं तदाऽऽह नेमिमच्युतः ॥ ४६७ ॥ त्वं विज्ञोऽसि कृपास्त्वं नेमे ! जल्प यथाऽधुना । यथा स्वं शिविरं सर्वं जायतेऽत्र सचेतनम् ॥ ४६८ ॥ नेमिर्जगाविह क्षोणी मध्ये पाइर्वजिनेशितुः । बिम्बमंस्त्यहिनाथाच्यं सुप्रभावं शिवप्रदम् ।। ४६९ ।। उपवासत्रयप्रान्ते तुष्टः पातालनायकः । तुभ्यं दास्यति लक्ष्मीश ! बिम्बं पाइर्वजिनेशितुः || ४७० ।। तस्य स्नात्राम्बुना सेनाऽभिषिक्ता निखिला लघु । उत्थास्यति यतोऽस्यास्ति प्रभावः प्रबलो भुवि ॥ ४७१ ॥ नेम्युक्तकरणात् पार्श्व-विम्बस्य स्नात्रवारिणा । अभिषिक्तं बलं कंस- शत्रुणोत्थितमञ्जसा ॥ ४७२ ॥ तत्र स्थाने मुकुन्देन प्रासादः कारितो महान् । तस्मिन्निवेशितं पार्श्व नाथविम्बं च सूत्सवम् ॥ ४७३ ॥ स्थापयित्वा पुरं तत्र व शङ्खेश्वराभिधम् । अपूरयत्तथा शङ्ख कृष्णोऽरेर्भी - रोभीर्यथाऽजनि ॥ ४७४ ॥ For Private and Personal Use Only 5255255252525525525525525 ॥ ५०९ ॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy