________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
%aamana
शत्रुज्जय कल्पवृ०
॥५०८॥
SPSSPSSETSESES252222
अथ रुक्मी महानेमि शिशुपालो धनञ्जयम् । हरिण्यनाभोऽनावृष्टिं योद्धं क्रोधादचीचलन् ॥ ४४९ ॥ षण्णामपि महीशानां तेषां विशिखवपिणाम् । संग्रामो दारुणोऽत्यन्त-मसह्योऽभून्मिथस्तदा ॥ ४५० ।। न स सादी निषादी न पदाती न रथी न च । महानेमेः शरा यत्र निपतन्ति रणाङ्गणे ॥ ४५१ ।। महानेमिशरैर्व्याप्तं रुक्मिणं रक्षितुं नृपाः । वेणुवारिमुखाः सप्त जरासन्धाज्ञया स्थिताः ॥ ४५२ ॥ महानेमिशरैस्तेषा-मष्टानामपि सायकान् । चिच्छेद लघुहस्तत्वाज ज्योतिषीव प्रभाकरः ॥ ४५३ ॥ तदा यादवसुरेशै मगधेशस्य भूपतेः । सङ्ग्रामे जनिरे क्रुदै-बहवो बाहुशालिनः ।। ४५४ ॥ अवधीजयसेनं तु हरिण्यनाभभूपतिः । न्यहन् हरिण्यनाभं तु क्रुद्धोऽनावृष्टिभूधवः ॥ ४५५ ।। एकोनविंशति सूनून जरासन्धस्य भूपतेः । रथनेमिर्यमावासं प्रेपयामास वेगतः ॥ ४५६ ॥ विलोडिते निजे सैन्ये भूभुजा रथनेमिना । शिशुपालं च सेनान्यं जरासन्धो व्यधात्तदा ॥४५७॥ रामकृष्णवधे कृत्वा प्रतिज्ञां मगधेश्वरः । शिशुपालयुतोऽचाली-न्निहन्तुं रामकेशवौ ॥ ४५८ ॥ चिडून मुरविद्वषि-हलिनावुपलक्ष्य च । जरासन्धो निहन्तं तौ समागात् समराङ्गणे ॥ ४५९ ॥ इतोऽष्टाविंशतिः पुत्रा जरासन्धावनिपतेः । रामेण सह युध्यन्तो-ऽलञ्चक्रुर्यममन्दिरम् ।। ४६० ।। रामपुत्रान् जरासन्धो हत्वा नव निजासिना । गच्छन् भीमेन गदया निहतो न्यपतद्भवि ॥ ४६१ ॥
५०८॥
For Private and Personal Use Only