________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ०
॥ ५०७॥
25252522525252525525STS
विचार्येत्यनुगैः सार्द्ध जरासन्धो नरेश्वरः । शिक्षयित्वा वरं दूतं मदनाहूं स्फुटारवम् ॥४३६॥ प्रेषयामास कृष्णस्य समीपे च जगौ स च । अहमस्मि जरासन्ध-भूपदूतो नरेश्वर ! ॥४३७ ॥ युग्मम् ॥ जरासन्धोऽगदन्माम-कीनाऽऽस्यादिति साम्प्रतम् । जामाता मे हतः कंस-स्त्वया यत्तद्वरं न हि ॥ ४३८॥ पार्थस्य सारथीभूत्वा दुर्योधनः सहानुजैः । मभृत्यो गमितो मृत्युं त्वया यत्तदरं न हि ॥ ४३९ ॥ जरासन्धोदितं दूत मुखाच्छ्रत्वा हरिस्तदा । धिक्कृत्य तं पुनः पश्चात् प्रेषयामास वेगतः ॥ ४४० ॥ ततो दूतो जरासन्धो-पान्ते गत्वा जगाविति । पाण्डुपुत्रैर्बतेनैव युतः कंसरिपुर्बली ॥ ४४१ ॥ न मन्यन्ते तृणं त्वां तु साम्प्रतं चान्यभूपतीन् ।........।। ४४२ ॥ ततः क्रुद्धो जरासन्धः सजोऽभूद्रणहेतवे । यावत्तावद् हरिरपि सन्नह्य प्रस्थितोऽध्वनि ॥ ४४३ ॥ गुजरात्रस्य देशस्य भूपणे वद्धिकारके । विषये चाऽमिलत् सैन्यं जरासन्धमुकुन्दयोः ॥ ४४४ ॥ जरासन्धोऽथ सेनानी हरिण्यनाभभूपतिम् । विधाय गरुडव्यूह प्राववर्त्त युधे द्रुतम् ॥ ४४५ ॥ कृच्छ्रात् कृत्वा त्वनावृष्टिं सेनान्यं वरविक्रमम् । डुढौके वैरिणं हन्तुं धर्मपुत्रादियुग् हरिः ॥ ४४६ ॥ हयानां हेषितैः साम-योनीनां च गर्जितैः । भटानां सिंहनादेन नभोऽभूदधिरं तदा ॥४४७॥ विभिद्य गरुडव्यूह महानेमि-धनञ्जयौ । अनावृष्टिश्च भूयिष्ठ-शत्रन् यमगृहेऽनयत् ॥ ४४८ ॥
ISESSESSZS5PS5222 ESSIS
॥५०७॥
For Private and Personal Use Only