Book Title: Shatrunjay Kalp
Author(s): Amrendrasagar, Mahabhadrasagar
Publisher: Jain Agam Mandir Samstha

View full book text
Previous | Next

Page 530
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir - शत्रुञ्जय कल्पवृ० ॥५०३॥ 252TSSESESTSTATISTS उद्वाहादनु शाम्बेन स्वरूपे प्रकटीकृते । भ्रकुटया भीपितो भीरु- मायाः शरणं ययौ ॥ ३८५ ॥ भामाऽपि शाम्बमालोक्य प्राह रे ! केन हि त्वकम् । आनीतोऽसि पुरीमध्ये पापिन् ! मूर्योत्तमाऽधुना ॥ ३८६॥ ततो मातुः पदौ नत्वा भक्त्या शाम्बो जगाविदम् । आनीतोऽस्मि त्वयेदानी-महं सज्जनसाक्षिकम् ॥ ३८७ ॥ सर्वासां कन्यकानां तु भीरुकस्य करग्रहम् । भवत्याऽऽकारितः सर्व-लोकसज्जनसाक्षिकम् ॥ ३८८ ॥ तया पृष्टा जनाः प्रोचुः शाम्बोऽस्माभिनिरीक्षितः । अनेन कन्यका सर्वां परिणीता सदुत्सवम् ॥३८९ ॥ जितशत्रपो जातः प्रद्युम्नो रुक्मिणीसुतः । सत्यभामा जगौ खिन्ना शाम्ब प्रतीदमीयया ॥ ३९० ॥ मायी बन्धुः पिता मायी मायिनी यस्य च प्रमः । मायी सोऽछलयत्कन्या-रूपो मां सहजो रिपुः ॥३९१ ॥ जननीजनकभ्रातृ-प्रमुखा यस्य मायिनः । मायावी स भवत्पुत्रो-ऽछलयन्मां रिपूपमः ॥३९२ ॥ उक्त्वेति दुःखिनी भामा निःश्वस्य सुचिरं तदा । आगत्य स्वगृहे जीर्ण-मश्चमाशिश्रियद् द्रुतम् ॥ ३९३ ॥ वसुदेवं नमस्कृत्य शाम्बोऽवग् भ्रमता त्वया । परिणीता बहू: कन्याः मयारूपेनानेहसा शतम् ॥३९४ । वसुदेवोऽगदत कन्याः स्वयंवरसमागताः । सहस्रशः तदम्बादि-दत्ता अङ्गीकृता मया ॥ ३९५ ॥ जननी छलयित्वा त्वं मायया बन्धुसंयुतः । एकोनं च शतं कन्याः पर्यणैपीरिहागताः ॥ ३९६ ॥ क्रुद्धं पितामहं मत्वा नत्वा शाम्बो जगावदः । क्षन्तव्यं मत्कृतं सर्व-मपराधं पितस्त्वया ॥३९७॥ ESPESSSTSETSSZSSIS:9252 ॥५०३॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581