________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
-
शत्रुञ्जय कल्पवृ०
॥५०३॥
252TSSESESTSTATISTS
उद्वाहादनु शाम्बेन स्वरूपे प्रकटीकृते । भ्रकुटया भीपितो भीरु- मायाः शरणं ययौ ॥ ३८५ ॥ भामाऽपि शाम्बमालोक्य प्राह रे ! केन हि त्वकम् । आनीतोऽसि पुरीमध्ये पापिन् ! मूर्योत्तमाऽधुना ॥ ३८६॥ ततो मातुः पदौ नत्वा भक्त्या शाम्बो जगाविदम् । आनीतोऽस्मि त्वयेदानी-महं सज्जनसाक्षिकम् ॥ ३८७ ॥ सर्वासां कन्यकानां तु भीरुकस्य करग्रहम् । भवत्याऽऽकारितः सर्व-लोकसज्जनसाक्षिकम् ॥ ३८८ ॥ तया पृष्टा जनाः प्रोचुः शाम्बोऽस्माभिनिरीक्षितः । अनेन कन्यका सर्वां परिणीता सदुत्सवम् ॥३८९ ॥ जितशत्रपो जातः प्रद्युम्नो रुक्मिणीसुतः । सत्यभामा जगौ खिन्ना शाम्ब प्रतीदमीयया ॥ ३९० ॥ मायी बन्धुः पिता मायी मायिनी यस्य च प्रमः । मायी सोऽछलयत्कन्या-रूपो मां सहजो रिपुः ॥३९१ ॥ जननीजनकभ्रातृ-प्रमुखा यस्य मायिनः । मायावी स भवत्पुत्रो-ऽछलयन्मां रिपूपमः ॥३९२ ॥ उक्त्वेति दुःखिनी भामा निःश्वस्य सुचिरं तदा । आगत्य स्वगृहे जीर्ण-मश्चमाशिश्रियद् द्रुतम् ॥ ३९३ ॥ वसुदेवं नमस्कृत्य शाम्बोऽवग् भ्रमता त्वया । परिणीता बहू: कन्याः मयारूपेनानेहसा शतम् ॥३९४ । वसुदेवोऽगदत कन्याः स्वयंवरसमागताः । सहस्रशः तदम्बादि-दत्ता अङ्गीकृता मया ॥ ३९५ ॥ जननी छलयित्वा त्वं मायया बन्धुसंयुतः । एकोनं च शतं कन्याः पर्यणैपीरिहागताः ॥ ३९६ ॥ क्रुद्धं पितामहं मत्वा नत्वा शाम्बो जगावदः । क्षन्तव्यं मत्कृतं सर्व-मपराधं पितस्त्वया ॥३९७॥
ESPESSSTSETSSZSSIS:9252
॥५०३॥
For Private and Personal Use Only