________________
Shri Mahavir Jain Aradhana Kendra
शत्रुज्जय कल्पवृ● ॥ ५०५ ॥
25 25 25 25
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समुद्रविजयो भूपो नवसोदरसंयुतः । प्रतापी विद्यतेऽन्येऽपि यादवाः कोटिसम्मिताः ॥ ४११ ॥ हट्टश्रेणौ मणीनां तु राशीन् कैलाससोदरान् । वीक्ष्य शैस्ततेऽम्भोधि - मणिशेषोऽधुनाऽभवत् ॥ ४१२ ॥ स्थाने स्थाने तु कल्याण-पुञ्जान् प्रौढतरान् बहून् । स्वर्णद्वीपः किमत्रागाद् वीक्ष्येति चिन्त्यते बुधैः ॥ ४१३ ॥ दुकूलसञ्चयान् भूरीन् स्थाने स्थाने निरीक्ष्य तु । लोकाः प्रोचुर्जगत् सर्व- दुकूलान्येयुरत्र तु ॥ ४१४ ॥ कृष्णनामश्रुते जीवयशा एत्य पितुः पुरः । जगाद तव जामातु- र्हन्ता सम्प्रति जीवति ॥ ४१५ ॥ तेन मे विद्यते शल्यं दुःखं कुर्वन् दृढे हृदि । तत् कर्षयाऽधुना तात ! नो चेन्मृतास्म्यहं द्रुतम् ॥ ४१६॥ जरासन्धो जगौ सर्वे यादवाः कृष्णसंयुताः । प्रविश्याग्नौ मृति जग्मुरतो मा त्वं कराऽसुखम् ॥ ४१७ ॥ इतस्तत्र समागत्य वणिजोऽप्यपरे पुनः । जरासन्धनृपस्याग्रे ऽमुञ्चन् स्थालं मणीभृतम् ॥ ४१८ ॥ सन्मान्य तान् नृपोऽप्राक्षीद् रत्नानीदृशि कुत्र नु ? । विद्यन्ते च कुतः स्थाना-दानीतानि निवेद्यताम् ॥ ४१९ ॥ रत्नानि चन्द्रमार्त्तण्ड - विम्बाभानि त्विषाम्भरैः । स्फारामलकमानानि मौक्तिकानि शुभानि च ॥ ४२० ॥ दर्शयित्वा नृपस्योचु-र्वणिजो विनयाश्रितम् । अपश्चिमाब्धितटे द्वारवत्यस्ति नगरी वरा ॥ ४२१ ॥ युग्मम् ॥ तत्र कृष्णाभिधो राजा सर्वयादवपुङ्गवः । पालयन्न्यायतो राज्यं रामं स्मारयति प्रजाः ॥ ४२२ ॥ . समुद्रविजयो राजा नवसोदरसंश्रितः । प्रीतिमान् विद्यतेऽत्यन्तं लोकेषु निखिलेष्वपि ॥ ४२३ ॥
For Private and Personal Use Only
252525252525252525
॥ ५०५ ॥