Book Title: Shantinath Charita Part 04
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 13
________________ पञ्चमः प्रस्तावः । आभाषितास्ततस्तेन सर्वे प्राहरिका नराः । ते तु प्रमाददोषेण सुप्ता नो ददिरे वचः ॥ १६ ॥ वत्सराजोऽवदत् स्वामिन् ! कार्यमादिश्यतां मम । 'राजोचे किं मया नाद्य विसृष्टोऽसि महाशय ! ॥ १७ ॥ आमेति भणिते तेन सोऽब्रवीदधुनाऽपि हि । विसृष्टोऽसि गृहं याहि प्रेष्यत्वं तव नोचितम् ॥ १८ ॥ सोऽवदत् त्वत्समादेशं कुर्वतः का मम त्रपा ? | अवश्यं तं करिष्यामि कार्यमादिश्यतां प्रभो ! ॥ १८ ॥ राजीचे तर्हि गत्वा त्वं पृष्ट्वा दुःखस्य कारणम् । 'वत्सेनां कामिनीं दोनां रुदतों प्रतिषेधय ॥ २० ॥ सोऽथ शब्दानुसारेण कृत्वा प्राकारलङ्घनम् । मध्यभागे श्मशानस्य ययौ सत्त्वसमन्वितः ॥ २१ ॥ तत्रैकदेशे सहस्त्रालङ्कारपरिशोभिताम् । विलोक्य ललनामेकां रुदतीमित्यभाषत ॥ २२ ॥ का त्वं मुग्धे ! कथं चात्र श्मशाने हन्त ! रोदिषि ? | न चेहोप्यं तदाख्याहि निजं दुःखस्य कारणम् ॥ २३ ॥ साऽवोचच्च लितोऽसि त्वं यत्र तत्र प्रयाहि भोः ! । असमर्थतनोस्ते किमनया मम चिन्तया ? ॥ २४ ॥ वत्सोऽवादीद्दुःखिनीं त्वां दृष्ट्वा नो गन्तुमुत्सहे । भवन्ति साधवो यस्मात् परदुःखेन दुःखिताः ॥ २५ ॥ (१) ङ राज्ञोचे । (२) ङ च वत्सेमां । ३८ २८७ (३) ख ङ ज क्याथाबला । द-क्य त्रिवलया ।

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104