Book Title: Shantinath Charita Part 04
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 55
________________ षष्ठः प्रस्तावः गिरी वृषभकूटाख्ये निजं नाम लिलेख च ।। गङ्गोत्तरं निष्कटं चासाधयद् वाहिनीपतिः ॥ ६ ॥ तमिस्रायां नाट्यमालं संसाध्य निरगाद् विभुः । गङ्गां च साधयित्वाऽस्याः कूले तस्याऽथ तस्थुषः ॥ ७ ॥ हादशयोजनायामा नवयोजनविस्तृताः । मञ्जषाकृतयः प्रादुर्बभूवुनिधयो नव ॥ ८ ॥ ( युग्मम् ) नेमप: पाण्डकश्चैव पिङ्गलः सर्वरत्नकः। महापद्मः कालमहाकाली माणवशसको ॥ ८ ॥ स्कन्धावारपुरादीनां निवेशा: प्रथमे निधी। सर्वेषां धान्यबीजानामुत्पत्तिश्च द्वितीयके ॥ १० ॥ नराणां महिलानां च हस्तिनां वाजिनां तथा । प्राभरणविधिः सर्वो निधौ पिङ्गलके भवेत् ॥ ११ ॥ चतुदेशाऽपि रत्नान्युत्पद्यन्ते सर्वरत्नके। महापद्मे च वस्त्राणां रङ्गादीनां च सम्भवः ॥ १२ ॥ काले कालत्रयज्ञानं महाकाले च कीर्तितः । स्वर्णरूप्यलोहमणि प्रवालानां च सम्भवः ॥ १३ ॥ युद्धनौति: समग्राऽपि सर्वप्रहरणानि च । तनुत्राणादि योधानां योग्यं माणवके भवेत् ॥ १४ ॥ तूर्याङ्गानि ससस्तानि काव्यं चाऽपि चतुर्विधम् । निधौ मञ्जायते शवे नाट्य नाटकयोविधिः ॥ १५ ॥ तेषु पल्योपमायुष्का वसन्ति खलु देवताः । निधानसमनामान: समये परिकीर्तिता: ॥ १६ ॥

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104