Book Title: Shantinath Charita Part 04
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 88
________________ ३७२ श्रीशान्तिनाथचरित्रे ततो निवेदितस्तेन तद्दृत्तान्तो महीपतेः । कोsa साक्षीति राजोक्ते सोऽवदज्जनकोऽस्य हि ॥ ५१ नृपाहतेन तेनाऽपि तत्सत्यमिति जल्पितम् । ततोऽसौ सत्यवादीति पूजितः पृथिवोभुजा ॥ ५२ वधार्थं मम्मणस्याथ समादिष्टो महीभुजा । यमपाशोऽब्रवीद् देव ! नहि हिंसां करोम्यहम् ॥ ५३ ॥ कथं त्वं प्राणिनो हिंसां मातङ्गोऽपि करोषि न । इति पृष्टोऽवनीशेन स आख्याति स्म कारणम् ॥ ५४ ॥ हस्तिशीर्ष पुरवरे दमदन्तो वणिक्सुतः । अनन्ततीर्थक्कृत्पार्श्वे श्रुत्वा धर्ममभूद् व्रती ॥ ५५ ॥ तपः प्रकुर्वतस्तस्य लब्धयोऽनेकशोऽभवन् । गोतार्थो विहरनेकः स नगर्थ्यामिहाययौ ॥ ५६ ॥ तस्थौ पितृवनोपान्ते कायोत्सर्गेण च स्थिरः । इतश्च तनयो मेऽस्ति प्रभो ! नाम्नाऽतिमुक्तकः ॥ ५७ ॥ औपसर्गिक रोगार्तो गतः पितृवनेऽथ सः । मुनिं ननाम नोरोगस्तस्य शक्ता बभूव च ॥ ५८ ॥ मम तेन स्ववृत्तान्तो गृहमेत्य निवेदितः । ततोऽहं सकुटुम्बोऽपि तत्राऽगां रोगपीडितः ॥ ५८ ॥ मुक्तश्च व्याधिना तेन ततोऽहं श्रावकोऽभवम् । यावज्जीवं च हिंसाया विरतोऽस्मि धरापते ! ॥ ६० ॥ तेनैव साधुना देव ! प्रतिबोधकथा निजा । आख्याता मम पृष्टेन ततोऽहमपि वेद्मि ताम् ॥ ६१ ॥ E

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104