Book Title: Shantinath Charita Part 04
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 90
________________ ३७४ श्रीशान्तिनाथचरित्रे ततो निदानलाभं नौ ज्ञात्वा भूपः कथञ्चन । तहहीष्यति दारिद्रय तदवस्थं तदावयोः ॥ ७२ ॥ गृहीत्वा शतमेकैकं शेषद्रव्यमिहैव हि। निक्षिप्यते वटोपान्ते संमतं तव चेटु भवेत् ॥ ७३ ॥ एवमस्त्विति तेनोक्ते रात्री निक्षिप्य तत्र तत् । प्रभाते तो निजं गेहमेयतुर्मुदिताशयौ ॥ ७४ ॥ तद्दीनारशतमथो दुष्टबुद्धे रसदव्ययात् । निष्ठितं दिवस: कैश्चित् पुण्येनैव स्थिरेन्दिरा ॥ ७५ ॥ पुनः सुबुद्धिदुर्बुद्धी गत्वा निशि ततो धनात् । दीनारशतमेकैकं गृहीत्वा गृहमागतो ॥ ७६ ॥ अन्यदा चिन्तयामास दुष्टबुद्धिर्मनस्यदः । सुबुद्धिं वञ्चयित्वेनं शेषं स्वं स्वीकरोम्यहम् ॥ ७७ ॥ विचिन्त्यैवं स यामिन्यां गत्वा तत्र तदाददे । वञ्चयते जन कोऽप्यर्थलुब्धैरन्यस्य का कथा ? ॥ ७८ ॥ मित्रमूचे च तद् द्रव्यं विभज्यानीयते एहम् । बहि:स्थिते च नो तस्मिंश्चिन्ता नौ याति चित्ततः ॥ ७८ ॥ तहाक्यमनुमनेऽथ सुबुद्धिः सरलाशयः । गत्वा चखान तत् स्थानं मह तेन च दुष्टधीः ॥ ८० ॥ तत्राऽपश्यन् धनं तच्च स कूटकपटालयः । हा ! वञ्चितोऽस्मि केनाऽपोत्याजघान शिरोऽश्मना ॥ ८१ ॥ जगाद च त्वया तद्धि सुबुद्देऽपहृतं खलु । जानाति नाऽपरः स्थानमिदमावाभ्यां विना यतः ॥ ८२ ॥

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104