Book Title: Shantinath Charita Part 04
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
षष्ठः प्रस्तावः ।
परदारप्रसक्तानां दुःखानि स्युरनेकधा ।
यथा करालपिङ्गोऽभूत्पुरोधा दुःखभाजनम् ॥ ६८ ॥ कोऽसौ करालपिङ्गाख्य इति चक्रायुधेन तु । पृष्टो जगाद भगवानुर्वेश ! श्रूयतामिति ॥ ७० ॥ अस्तीह भरतक्षेत्रे पुरं नलपुराऽभिधम् ।
३८३
बभूव नलपुत्राख्यस्तत्व राजा महाभुजः ॥ ७१ ॥ करालपिङ्गो नाम्नाऽभूत्तस्याऽभीष्टः पुरोहितः । शान्तिकर्मणि निष्णातो रूपयौवनवित्तवान् ॥ ७२ ॥ महेभ्यतनयस्तत्र पुष्प देवोऽभिधानतः । मित्रं पुरोहितस्याऽस्य वसति स्म वणिग्वरः ॥ ७३ ॥ तस्यासीत् प्रवरा भार्या पद्मश्रीः प्राणवल्लभा । पतिव्रताप्रभृतिभिः स्त्रीगुणैः समलंकृता ॥ ७४ ॥ पुरोधसाऽन्यदा तेन केनचिद्दितकर्मणा । तोषितः पृथिवीपालस्ततः सोऽस्मै ददौ वरम् ॥ ७५ ॥ विषयासक्तचित्तेन तेनेदं याचितं ततः ।
पुरेऽस्मिन् स्वेच्छया रामा रमणीया मया प्रभो ! ॥ ७६ ॥ राजा प्रोवाच या काचिदिच्छति त्वामिहाबला । सेवनीया त्वया सा हि सर्वदा नाऽपरा पुनः ॥ ७७ ॥ अनिच्छन्तीं च चेद्रामां रंस्य से वाऽर्थयिष्यसि । करिष्यामि ततो दण्डं पारदारिकवत् तव ॥ ७८ ॥ स्वैरं मंचरता तेन पुरे तस्मिन् पुरोधसा | वल्लभा पुष्पदेवस्य पद्मश्रीर्वीक्षिताऽन्यदा ॥ ७८ ॥

Page Navigation
1 ... 97 98 99 100 101 102 103 104