Book Title: Shantinath Charita Part 04
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 100
________________ ३८४ শ্রীনিঘৰি ततो विद्युल्लतानानौं तस्या दासौं जजल्प सः । भने ! भण तथेमां व यथा वाञ्छति मामसी ॥ ८० ॥ सतीत्व पालयन्ती सा नेच्छत्येनं कथञ्चन । स्वयं करालपिङ्गन रन्तुमभ्यर्थिताऽन्यदा ॥ ८१ ॥ साऽवादोन्मेदृशं ब्रूहि ज्ञास्यत्येतत्सखा तव । सोऽब्रवौच्च तथा कार्य यथाऽन्यत्र प्रयात्यसो ॥ ८२ ॥ कथितं निज कान्तस्य तदाक्यमखिलं तया । प्रतीक्षमाणः कालं च सोऽस्थाद् धृत्वा मनस्यदः ॥ ८३ ॥ पुरोहितेन तेनाऽय विद्यासामर्थतोऽन्यदा । कता दुर्विषहा शौर्षे वेदना मेदिनीपतेः ॥ ८४ ॥ तमाकार्य ततो राज्ञा तत्स्वरूपं निवेदितम् । अपनिन्ये सका तेन शिरोऽर्तिमन्त्रवादिना ॥ ८५ ॥ पुनस्तुष्टोऽस्य भूपालोऽवदद्याचस्व किञ्चन । तेनाऽपि जल्पितं देव ! कुर्विदं त्वौं वचो मम ॥ ८६ ॥ किंजल्पिसंज्ञके होप सन्ति किंजल्पिकाः खगाः । सुस्वरा दृश्यमानाश्च भवन्ति सुखदा हि ते ॥ ८ ॥ तषामानयनाथं तत् पुष्य: संप्रेष्यतां वणिक् । तदङ्गीकृत्य भूपोऽपि तदर्थं विससर्ज तम् ॥ ८८ ॥ सोवस्ति कहतं चैतत्सोऽपि विज्ञाय बुद्धिमान् । भर्तः प्रमाणमादेश इत्युक्त्वा च ययौ ग्रहम् ॥ ८८ ॥ अकारयभूमिग्रहं गृहस्यान्तस्ततश्च सः । नरैः प्रत्ययितैर्यन्त्रपर्यझं तस्य चोपरि ॥ ८ ॥

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104