Book Title: Shantinath Charita Part 04
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 94
________________ श्रीशान्तिनाथ चरित्रे ॥ असत्यविषये भद्रशेष्ठिकथानकम् ॥ स्थूलादत्तपरित्यागसंज्ञमेतदणुव्रतम् । पालनीयं प्रयत्नेन गुणकज्जि नदत्तवत् ॥ १६ ॥ वसन्तपुरमित्यस्ति पुरं पुरगुणाञ्चितम् । यथार्थनामा तत्राऽभूद जितशत्रुर्धरापतिः ॥ १७ ॥ तनयो जिनदासस्य जिनदत्तोऽभिधानतः । बभूव श्राव कस्तत्र जीवाऽजीवादितत्त्व वित् ॥ १८ ॥ संप्राप्तयौवनः सोऽथ दीक्षाऽऽदानकृताशयः । विवाहं कुलकन्याया नेच्छति स्माऽर्थितोऽपि सन् । ॥१८॥ मित्रमण्डल संयुक्तो ययौ चोपवनेऽन्यदा । उत्तङ्गशिखरं तत्राद्राक्षीच जिनमन्दिरम् ॥ २० ॥ ततोऽसौ विधिना तत्र प्रविश्य कुसुमादिभिः । समभ्यर्च्य जिनाधीशं विदधे चैत्यवन्दनाम् ॥ २१ ॥ आगत्य कन्यकै कायोत्तरीयपिहितानना। शुभद्रव्यैर्जिनाऽर्चायाश्च कार मुखमण्डनम् ॥ २२ ॥ कपोले जिनबिम्बस्य पत्रवल्ली वितन्वतीम् । तां वीक्ष्य विस्मितोवाच जिनदत्तः सखीनिति ॥ २३ ॥ कस्येयं तनया हहो ! तेऽवोचन् विदिता न किम् ? । तवेयं प्रिय मित्रस्य सार्थवाहस्य नन्दिनी ॥ २४ ॥ एषा जिनमतीनाम्नी यथा नारीशिरोमणिः । तथा त्वमपि रूपाद्ये गुणेनरशिरोमणिः ॥ २५ ॥ करोति ग्रहवासेन संयोगं युवयोर्य दि ।

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104