Book Title: Shantinath Charita Part 04
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
षष्ठः प्रस्तावः ।
३७८
वेधास्तत्तस्य निर्माण प्रयास: सफलो भवेत् ॥ २६ ॥ जिनदत्तोऽभ्यधाटु युक्तं न युष्माभिर्विधीयते । वयस्या यत् कृतं हास्यमिह स्थाने मया सह ॥ २७ ॥ पराभिप्रायविज्ञानदक्षा अप्यनुगामिन: । किं न जानीत मां यूयं दीक्षाऽऽदानकताशयम् ॥ २८ ॥ मुखमण्डनविज्ञानकौतुकेन मयाऽपि भोः ! ? | पृष्टमेतदन्यथा तु स्त्रोकथात्र न युज्यते ॥ २८ ॥ इत्युदित्वा स्थितः सोऽय जिनमत्या निरीक्षित: । अनुरागश्च संजातस्तस्यास्त स्मिन् शुभाकृतौ ॥ ३० ॥ ज्ञातः सखोजनेनाऽस्या अभिप्रायो मनोगतः । संप्राप्तेन ग्रहं सोऽथ पित्रोरग्रे निवेदितः ॥ ३१ ॥ जिनदत्तोऽपि सदनं गत्वा कृत्वा च भोजनम् । हट्टे गत्वा व्यवहृतिं चक्रे ऽर्थार्जनहेतवे ॥ ३२ ॥ जिनमत्याः पिता गत्वा जिनदासस्य सन्निधौ । कन्याप्रदानं विदधेऽनुमेने सोऽपि तन्मुदा ॥ ३३ ॥ ग्रह प्राप्तस्य वृत्तान्तः पित्रा सूनोनिवेदितः । असो दीक्षाभिलाषित्वादुद्दाहं नेच्छति स्म च ॥ ३४ ॥ जिनमन्दिरयानादि स्ववृत्तान्तं निवेद्य सः । पित्रा पुनर्विवाहार्थे भणितो मौनमाथितः ॥ ३५ ॥ अन्यदा कन्यका साथ निर्गच्छन्ती यहाट् निजात् । दृष्टा पुगरक्षकेन वसुदत्तेन भोगिना ॥ ३६ ॥ ततो जाताऽनुरागण तेन गत्वाऽथ तत्पितुः ।

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104