Book Title: Shantinath Charita Part 04
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
षष्ठः प्रस्तावः ।
तरुकोटरमध्येऽत्र प्रक्षिप्याऽहं गतो एहम् । अन्यस्मिन् दिवसे यावत्तदादातुमुपागतः ॥ ५ ॥ तावत्तत्राहिमद्राक्षं फटाटोपभयङ्करम् । देवताधिष्ठितमिदमिति चाऽचिन्तयं तदा ॥ ६ ॥ (युग्मम् ) तत्तं हिरसनं द्रव्यगोप्तारं देव ! हन्महम् । उपायेनेह केनापि यद्यनुज्ञा भवेत्तव ॥ ७ ॥ एवं कुर्विति राज्ञोक्त स सद्यस्तरकोटरम् । तर्पणैः पूरयामास बहिश्च परितोऽस्य हि ॥ ८ ॥ ततो ज्वलयितुं वह्नावारब्ध छगणोद्भवः । बभूव प्रचुरो धूमस्तेन प्लुष्टेक्षण: क्षणात् ॥ ८ ॥ दुष्टबुद्धिः पिता सोऽथ पपात पृथिवीतले । भद्र श्रेष्ठीति भूपेन लोकैश्चाप्युपलक्षित: ॥ १० ॥ (युग्मम्) किमेतदिति पृष्टश्च सर्वैरपि सकौतुकैः । सोऽवदत् कूटसाक्षित्वमहं दुष्टेन कारितः ॥ ११ ॥ अलीकवाक्यजं पापमिहेव फलितं मम । इति ज्ञात्वा न वक्तव्यमहो ! केनाप्यसूतृतम् ॥ १२ ॥ ततोऽसौ संस्थितो भद्रो भद्रधी: सोऽथ तत्सुतः । राज्ञा सर्वस्वमादाय पुराटु निर्वासितो निजात् ॥ १३ ॥ सुबुद्धिस्त्वर्चितस्तेन वस्त्रालङ्करणादिभिः । सत्यत्वात् सर्वलोकस्य प्रशंसां समवाप सः ॥ १४ ॥ असत्यमिह लोकेऽपि ज्ञात्वैवं दुःख कारणम् । तत्त्व या परिहर्तव्यं चक्रायुध ! महीपते ! ॥ १५ ॥
४८

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104