Book Title: Shantinath Charita Part 04
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
षष्ठः प्रस्तावः ।
३०५
सोऽब्रवीद हतुकामः स्वमभविष्य महं यदि । एकान्तलब्धं तत्ते ना कथयिष्यं पुराऽप्यदः ॥ ८३ ॥ त्वं तु स्ववञ्चकत्वेन मामप्येवं विमन्यसे । पित्तातिप्लावितो नीरमपि ज्वलितमोक्षते ॥ ८४ ॥ एवं तो कल हायन्तौ समपि नृपतेगती।। इति विज्ञपयामास तमादौ सोऽथ दुर्मतिः ॥ ८५ ॥ देवावाभ्यां निधिः क्वापि लब्ध स्तेन निवेदितः । लुब्धाभ्याममुक स्थाने निक्षिप्तश्च भिया तव ॥ ८६ ॥ अनेन वञ्चयित्वा मां जरहे स सुबुद्धिना। इति ज्ञात्वा यथायुक्तं विधेहि त्वं महीपते ! ॥ ८७ ॥ राजोचे वर्ततेऽत्रार्थे साक्षिको ननु क स्तव । विचिन्त्य सोऽवदद् दुष्टबुद्धिः पुनरिदं वचः ॥ ८८ ॥ यस्याऽधस्तादिनिक्षिप्तं तद् द्रव्यमवनीपते ! । स एव हि महावृक्ष: साक्षिकोऽस्त्यत्र निश्चितम् ॥ ८८ ॥ इदं वित्तमनेनात्तमिति वाक्यम सौ यदि। तरुर्वक्ति ततो राजन् ! ज्ञेयः तूनृतवागहम् ॥ ८० ॥ राजा प्रोवाच यद्येवं करिष्य सि कथञ्चन । सत्यवाक्यो भवानको भविष्यति ततो जने ॥ ८१ ॥ इदं हि ह्यो मया कार्यमित्यक्ते दुष्ट बुद्धिना। विसृष्टौ तौ नरेन्द्रेण दत्तप्रतिभुवी ग्रहम् ॥ ८२ ॥ अहो ! सुदुर्घटं कार्य कथमेष करिष्यति । धर्मस्यैव जयो वेति ध्यायन् वेश्म ययौ सुधीः ॥ ८३ ॥

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104