Book Title: Shantinath Charita Part 04
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
षष्ठः प्रस्तावः ।
ततश्च पूजितो हृष्टचेतसा स महीभुजा ।
चाण्डालानां समस्तानामधिपश्च विनिर्मितः ॥ ६२ ॥
अन्येन खपचेनाऽयं मम्मणो विनिपातितः ।
३७३
यमपाशश्च मृत्वान्ते
बभूव त्रिदशोत्तमः ः ॥ ६३ ॥
॥ प्राणातिपातविरतिविषये यमपाशमातङ्गकथानकम् ॥ द्वितीयं च व्रतं नाम कन्यालोकादि पञ्चधा । अलोक भाषणे दोषो भद्रस्येव प्रजायते ॥ ६४ ॥ चितिप्रतिष्ठितपुरे वणिजौ धनवर्जितौ । दुष्टबुद्धिसुबुद्धयाख्यावभूतां 'विदितौ जने ॥ ६५ ॥ प्रपन्नसौहृदावेतौ किञ्चिदादाय पण्यकम् । देशान्तरप्रचलितावर्थोपार्जनहेतवे ॥ ६६ ॥ प्राप्तौ च क्रमयोगेण पुरे क्वाऽपि पुरातने । दिनानि कतिचित्तत्र तस्यतुर्लाभकाङ्क्षिणौ ॥ ६७ ॥ देहचिन्ताकृते क्वापि खण्डीकसि सुबुद्धिना । उपविष्टेन संप्राप्तं निधानं किञ्चिदन्यदा ॥ ६८ ॥ तद्दुष्टबुद्धिना सार्धं गृहीत्वाऽसौ न्यभालयत् । यावत्तावच्च दोनारसहस्रं ममजायत ॥ ६८ ॥ कृतकृत्यौ ततश्चैतावागतौ नगरं निजम् । तवेदं मन्त्रयामास दुष्टः सह सुबुद्धिना ॥ ७० ॥ अर्धमधं विभज्येदं गृहीवश्चेदनं सखे ! ।
तदा संभावना गुर्वी भविष्यत्यावयोर्जने ॥ ७१ ॥
( १ ) ङ जिनशासने ।

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104