Book Title: Shantinath Charita Part 04
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
श्रीशान्तिनाथचरित्रे
भयभीतं च तत्सैन्यं तेनैवाखासितं गिरा। अत्रान्तरे च बालास्तास्तिस्रोऽप्यूचरिदं वचः ॥ २५ ॥ वयं विमोचिताः स्वामिन्येतस्मात् खेचरात् त्वया । जन्तवः सुप्रसन्नेन गुरुणा पातकादिव ॥ २६ ॥ भवन्त्यस्तनया: कस्य कुमारस्येति पृच्छतः । एका प्रोवाच तन्मध्याद्राज्ञः शाहपुरेशितुः ॥ २७॥ सुता दुर्लभराजस्य नाम्ना कमलवत्यहम् । भयेनैतस्य मयका विवाहो नेप्सितः खलु ? ॥ २८ ॥ कुमारोऽवोचत भयं स्नेह कोपजं नु वा । साऽवदत् कोपजं तद्धि स्नेहजं तु कुतो यतः ॥ २९ ॥ अहं हि कुट्टिमतलादनेनाऽपहृता पुरा । ततः स्वरसनाच्छेदं कुर्वत्येवं प्रजल्पिता ॥ ३० ॥ रमण: प्रतिपत्तव्यस्त्वयावश्यं मदुक्तया । अागन्तव्यं समीप मे यामिन्यां सर्वदा तथा ॥ ३१ ॥ भविष्यति विमानं ते सुशीलाया ममाज्ञया । यद्येवं कुरुष तत्त्वां विमुञ्चामि न हन्मा हम् ॥ ३२ ॥ कृत्वा शपथनिबन्ध प्रतिपन्नं मयाऽपि तत् । अनेन शिक्षिता चाऽस्मि साधो ! नृत्यादि का: कलाः ॥३३॥ एवमन्या वशेऽनेन कृतास्तिस्रो नृपात्मजाः। ., त्वया विनिघ्नता ह्येनं सर्वासां विहितं सुखम् ॥ ३४ ॥ इति श्रुत्वा कुमारेण स्वस्थानं प्रेषिता इमा: । स च स्वप्रेयसीवेश्म चेट्या सह समाययौ ॥ ३५ ॥

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104