Book Title: Shantinath Charita Part 04
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
३
षष्ठः प्रस्तावः ।
३६१ तं दृष्ट्वा कनकवत्या पृष्टा दामी यथा हले ।। हतोऽद्य मम कान्तेन दुष्टविद्याधरः स किम् ? ॥ ३६ ॥ ततश्च तहधोदन्तस्तया तस्या निवेदितः । म्वभर्तृपौरुषोत्कर्षमाकर्ण्य मुमुदे च सा ॥ ३० ॥ गुणधर्मकुमारोऽथ कृत्वा वाती तया सह । तत्रैव शर्वरीशेषे सुष्वाप स्नेहनिर्भरः ॥ ३८ ॥ विद्याधरस्य तस्याऽथाऽनुजेन क्रचेतसा। उत्पाट्य सोऽर्णवेऽक्षेपि मुक्त्वा चान्यत्र तत्प्रियाम् ॥ ३८ ॥ लब्धा फलहकं किञ्चित् सप्तरात्त्रेण सोऽम्बुधेः । आससाद तटं तत्राऽद्राक्षोत्तापममेक कम् ॥ ४० ॥ ततश्च सममेतेन स गतस्तापसाश्रमम् । ददर्श तत्र कनकवतों स निजवल्लभाम् ॥ ४१ ॥ कुमारोऽथ कुलपते: समीपे विहितानतिः । निषसो भणितस्तेन भनेयं किमु ते प्रिया ? ॥ ४२ ॥ आमेति भणिते तेन मोऽब्रवीच दिनादितः । अतिक्रान्ते तीयेऽङ्गि संप्राप्ता काननाऽन्तरे ॥ ४३ ॥ उद्दध्य तरुशाखायामात्मानं मर्तुमुद्यताम् । इमिकामहमद्राक्षं त्वदियोगेन सुन्दर ! ॥ ४४ ॥ ( युग्मम् ) छित्त्वा पाशं मया सेयं कथञ्चिद्रक्षिता मृतेः । त्वदागतिं ज्ञानबलाट् ज्ञात्वाऽऽख्याय च तोषिता ॥ ४५ ॥ कदल्यादितरुफले: प्राणवृत्तिं विधाय तो। रात्री सुषुपतुस्तत्र विविक्तेऽथ लताग्रह ॥ ४६ ॥
४६

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104