Book Title: Shantinath Charita Part 04
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
श्रीशान्तिनाथचरित्रे
वीणावाद्येऽतिदक्षश्च गारुडे कुशलोऽथ सः । अन्यस्मिन् दिन उद्याने क्रीडति स्म सुहृद्युतः ॥ ८८ ॥ वसुदत्तसुरेणैष बहुधा प्रतिबोधितः । न किञ्चिद् मन्यते देवस्ततश्चैवं व्यचिन्तयत् ॥ ८ ॥ अत्यन्तसुखि तो नाऽयं तावदमें करिष्यति । न यावत् पातित: कष्टे प्रागा संशयकारिणि ॥ ८१ ॥ विचिन्त्यैवं मुने रूपं धृततर्पकरण्डकम् । स रजोहरणमुखव स्त्रिकारहितं व्यधात् ॥ ८२ ॥ पप्रच्छ नागदत्तस्तं यान्तमासन्नवर्मना । एतेषु त्वत्करण्डेषु विद्यते भो नरेन्द्र ! किम् ? ॥ ८३ ॥ सर्पा इत्यु दिते तेन सोऽब्रवीत्तर्हि तानहम् । क्रीडयिष्यामि नागांस्तु मदीयान् क्रीडय त्वकम् ॥ ४ ॥ वार्तिकोऽप्यवदट् वार्ता न कर्तव्या त्वयेशी। शक्याः क्रीडयितुं नैते यन्मदीया महोरगाः ॥ ६५ ॥ देवानामपि दुर्ग्राह्यांस्त्वमेतान् ननु बालकः । ग्रहीष्यसि कथं मूढ ! मन्त्रौषधिबलं विना ॥ ६ ॥ नागोऽभाषत पश्य त्वं गृह्यमाणानिमान् मया। त्वं मे हीत्वा राहाणादी सोऽवोचद् मुच्यतामिति ॥ ७ ॥ नागदत्तेन मुक्तास्ते लगन्ति स्म न तत्तनौ। लग्ना वा देवशक्तित्वात् कुर्वन्ति स्म व्य थां नहि ॥ ८ ॥ गान्धर्वनागदत्तोऽथ जजल्यैवं समत्सरः । मुञ्च त्वमपि सर्पान् स्वान् रे ! विलम्बयसेऽत्र किम् ? ॥८॥

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104