Book Title: Shantinath Charita Part 04
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
षष्ठः प्रस्तावः ।
कषाय विषये राजन् ! नागदत्तकथानकम् । तीर्थे यबर्धमानस्य भावि तत् कथयामि ते ॥ ७८ ॥ जम्बूहीपस्य भरतेऽस्मिन् वसन्तपुरे वरे। समृद्धवसुदत्ताख्यावभूतां वणिजौ वरौ ॥ ७८ ॥ हावप्यनुद्धतावल्पकषायो सरलाशयो। चक्रतुर्व्यवहारं तौ मैत्रीभावयुती समम् ॥ ८० ॥ यत्किञ्चित् प्रकरोत्ये कः कार्य तदितरेण च । इत्येकयोगकारित्वाद् निश्चयो वर्तते तयोः ॥ ८१ ॥ अन्यदोद्यानसंप्राप्तौ मुनीन्द्रं तावपश्यताम् । वज्रगुप्ताऽभिधं धर्ममाचक्षाणं सभान्तरे ॥ ८२ ॥ तं नमस्कृत्य तत्याचे श्रुत्वा धर्म शुभाशयो। प्रतिपन्नौ सुसाधुत्वं तौ परित्यक्तबन्धनौ ॥ ८३ ॥ कत्वा संलेखनामन्तेऽनशनं प्रतिपद्य तौ। विपद्य त्रिदिवं प्राप्तौ तत्राऽपि प्रीतिशालिनी ॥ ८४ ॥ यः पूर्वमावयोर्मध्यान्चावते सोऽपरेण हि । संस्थाप्यः सर्वदा धर्मे संकेतमिति चक्रतुः ॥ ८५ ॥ (युग्मम् ) जीवः समृद्धदत्तस्य च्यत्वाऽत्र भरतावनी। पुरे धारानिवासे मागरदत्तेभ्यमन्दिरे ॥ ८६ ॥ भार्याया धनदत्तायाः कुक्षिजो वररूपवान् । श्रीनागदेवतादत्तवरेण समभृत् सुतः ॥ ८७ ॥ (युग्मम्) नागदत्ताऽभिधानोऽसौ हिसप्ततिकलान्वितः । गान्धर्वे निरतस्तेन जातस्तत्पूर्वनामकः ॥ ८८ ॥

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104