Book Title: Shantinath Charita Part 04
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
षष्ठः प्रस्तावः ।
किं बहतेन यद्येवंविधया क्रिययाऽसकौ । संतिष्ठते यतो जीवत्य न्यथा म्रियते ध्रुवम् ॥ २१ ॥ क्रियां कर्तेति लोकेन भणितेऽमरवार्तिकः ।
आलिख्य मण्डलं विद्यामुच्चचारेति पावनीम् ॥ २२ ॥ सर्वसिद्धान् नमस्कृत्य महाविद्यास्त थाऽखिलाः । वक्ष्ये दण्ड विधिमहं विषवेगविनाशनम् ॥ २३ ॥ प्राणातिपातमनृतमदत्तस्खं च मैथुनम् । परिग्रहं च सकलं यावज्जीवं विवर्जयेः ॥ २४ ॥ अनया विद्यया वाहायुक्तया स महेभ्यः । निद्राक्षय इवोत्तस्थौ प्रभावेन दिवौकसः ॥ २५ ॥ वजनैर्वाति कादिष्टा क्रिया तस्य न्यवेद्यत । अश्रद्दधत् स तां गेहाऽभिमुख: प्राचलद् द्रुतम् ॥ २६ ॥ पपात च क्षणात् पृथ्वयां पुनर्निर्नष्टचेतनः । पुन: प्रार्थनया स्वानामुल्लाघो मरुता कृतः ॥ २० ॥ एवं तृतीयवेलायां विहिते गाढनिश्चये । गान्धर्वनागदत्तोऽपि तस्य वाक्यममन्यत ॥ २८ ॥ देवो नीत्वा तमुद्याने सुरत्वं स्खं निवेद्य च । तस्याचख्यो पूर्वभवं मोऽपि जातिं ततोऽस्मरत् ॥ २८ ॥ एवं प्रत्येकबुद्धोऽसौ संजातो मुनिपुङ्गवः । तं वन्दित्वाऽमर: सोऽपि जगाम स्थानमात्मनः ॥ ३० ॥ चतुरोऽपि कषायाऽहीन् नियम्याग करण्ड के । रक्षयामास स मुनियत्नान्निगच्छतो बहिः ॥ ३१ ॥

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104