Book Title: Shantinath Charita Part 04
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
षष्ठः प्रस्तावः ।
मेलय स्वजनान् सर्वान् नृपं च कुरु साक्षिकम् । इति गारुडिकेनो ते नागदत्तस्तथाऽकरोत् ॥ ४०० ॥ जगादोच्चैःस्वरं तेषां पुरो गारु डिकब्रुवः । भूत्वाऽवहितचित्ता भो ! यूयं शृणत महचः ॥ १ ॥ गान्धर्वनागदत्तो मे सर्पः क्रीडितुमिच्छति । यद्यसौ दश्यते तैस्तद् देयो दोषो न सर्वथा ॥ २ ॥ वजनैर्वा रितो नैष विरराम यदा तदा । मुमोच परितस्तस्य पन्नगान् सोऽहिवाहकः ॥ ३ ॥ जजल्प च महारा ममते हन्त ! जिह्मगाः । अमीषां नाम माहात्मा प्रत्येक कथयामि च ॥ ४ ॥ भारत नयनः क्रूरो दिजिह्वो विषपूरितः । क्रोधाभिधानः पूर्वस्यामादिमोऽयं सरीसृपः ॥ ५ ॥ अयमष्ट फटाटोपभीषण: स्तब्धवर्मकः । याम्यायां यमसंकाशो मानो नाम महोरगः ॥ ६ ॥ वञ्चनाकुशला वक्रगमना पश्चिमाश्रिता । इयं मायाह्वया नागी धत केनेह शक्यते ? ॥ ७ ॥ अयं हि दिशि कौबव्या लोभो नाम भुजङ्गमः । समुद्र इव दुष्यूरो दष्टो येन भवेद् नर: ॥ ८ ॥ य एतेर्दश्यते प्राणी चतुर्भिरपि पन्नगः । पतत्यधः स नियमादालम्बनविवर्जितः ॥ ८ ॥ गान्धवनागदत्तोऽथ तमूचे किमु निष्फलम् ? | करोषि वाचां विस्तारं मुञ्च शीघ्र मिमानरे ! ॥ १० ॥

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104