Book Title: Shantinath Charita Part 04
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 79
________________ षष्ठः प्रस्तावः ।। पृष्ट्वा किञ्चिदतिशय ज्ञानिनं स्वावमानताम् । विज्ञाय च यथायुक्त कार्यमित्य क्तवत्यसो ॥ ५८ ॥ गुणधर्मोऽय तहाक्यमङ्गीकृत्याऽविशत् पुरे। किञ्चिद् भोजनमानेतुं तस्थौ तत्रैव सा पुनः ॥ ५८ ॥ तदा च गुणचन्द्राख्यो राजपुत्रः समागतः । वनस्थां योवन स्थां तां दृष्ट्वा जज्ञेऽनुरागवान् ॥ ६० ॥ इत्युवाच च नम्राऽङ्गि ! काऽसि त्वं केन हेतुना । तिष्ठस्ये काकिनी बाले ! किं ते भर्ता न विद्यते ? ॥ ६१ ॥ विज्ञाय साऽनुरागं तं विरक्तं च निजं पतिम् । साऽप्याख्याय स्ववृत्तान्तं जाता तदनुरागिणी ॥ ६२ ॥ प्रार्थनातत्परं तं च साऽभाषत कथञ्चन । 'वञ्चयित्वा स्वभर्तारमष्यामि तव मन्दिरम् ॥ ६३ ॥ इत्युक्त: स ययो स्वौको गुणधर्मोऽत्र पत्तने । टुरोदरकोडया स्वमर्जयामास किञ्चन ॥ ६४ ॥ कारयित्वा ग्टहीत्वाऽथ मण्डकान् स समागतः । उद्यान प्रियया साधं विदधे भोजनं तत: ॥ ६५ ॥ चिन्तया शून्यचित्तवाडात्रमा विलिखनेन च । इङ्गितज्ञः कुमारोऽसावन्यासक्तां विवेद ताम् ॥ ६६ ॥ अथोत्थाय वन स्यान्ते बद्धलक्षो भ्रमन्नसो। पृष्टः केनाऽपि कि राजपुत्रोऽद्याप्यत्र तिष्ठति ॥ ६ ॥ (१) ज भर्तारं वञ्चयित्वाह मेष्यामि । (2) ज पस के नेति पृष्टः किमस्य द्याऽप्यत्र राजमूः ॥ ६॥

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104