Book Title: Shantinath Charita Part 04
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
श्रीशान्तिनाथरचरित्रे
तस्मिन्नारुह्य सा दासी ययौ तत्र तया सह । गुणधर्मकुमारोऽपि चिन्तयनिति मानसे ॥ ४ ॥ अद्य तस्याऽपनेष्यामि ध्रुवं विद्याधरेशताम् । गुरू च प्रेक्षणश्रद्धां जीवलोकनिवासिनाम् ॥ ५ ॥ प्रारब्धं खेचरैः मात्रमथ श्रीमज्जिनेशितुः । चेटी विमानादुत्तीर्य प्राविशत् सा जिनालये ॥ ६ ॥ कुमारोऽपि तथैवाऽस्थाच्छन्त्रः सर्वं विलोकयन् । एकेन खेचरेणैवं चेटिका सा प्रजल्पिता ॥ ७ ॥ किमद्य महतो वेला लग्ना ते स्वामिनी क्क वा । साऽपि कृत्वोत्तरं पूर्वमूचेऽहं प्रेषिता तया ॥८॥ तच्छ्रुत्वा खेचरेन्द्रोऽसौ कोपेन स्फरिताऽधरः । प्रोवाच कुरुत मात्र भो यूयं वृषभप्रभोः ॥ ८ ॥ अहं त्वस्याश्चिकित्सामि पापिष्ठायाः शरीरकम् । इत्युक्वा दामचेटौं तां मूर्धजेष्वग्रहीटमो ॥ १० ॥ कुमारोऽपि परिकरं बबन्ध निबिडं तटा। खङ्गं च प्रगुणीचक्रे भग्नश्च प्रेक्षणोत्सवः ॥ ११ ॥ ऊचे विद्याधरश्चेटौं तवादी रुधिरेण मे । उपशाम्यतु कोपाग्निः पश्चाद् युक्तं करिष्यते ॥ १२ ॥ तत्त्व स्मराभीष्टदेवं पञ्चत्वसमयेऽधुना। प्रतिपद्यख शरणं तं च यः प्रतिभाति ते ॥ १३ ॥ सावादीदेष सवन्नो देवासुरनरार्चितः । प्रभौष्टदेवो भगवान् स्मनः योवृषभो मया ॥ १४ ॥

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104