Book Title: Shantinath Charita Part 04
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
षष्ठः प्रस्तावः ।
अन्यच्च -
―
यतः प्रवर्त्तमानाऽहं कुमारीत्वे पितुर्गृहे । तेन विद्याधरेन्द्रेण शपथं कारिता ह्यमुम् ॥ ८५ ॥ मयाऽनुज्ञातया कान्तः सेवनीयस्त्वया खलु । 'आगन्तव्यं तथावश्यं निश्युपान्ते सदा मम ॥ ८६ ॥ पित्त्रोर्मयोपरोधेनाऽनुरागेण च राजस्ः ।
तदूढाऽभिमतश्चाऽभूत् तस्याऽहमपि सम्मता ॥ ८७ ॥ कथञ्चित्तत्र गच्छन्ती ज्ञाताऽहममुना सखि ! । सोऽपि विद्याधरोऽनेन साचादेव विलोकितः ॥ ८८ ॥
ततो मे वल्लभस्तेन खेचरेण् हनिष्यते ।
हन्ताऽथवा खेचरो मामित्याशङ्कां करोम्यहम् ॥ ८८ ॥
नवीनयौवनारम्भो बह्वपायः प्रवर्तते
उत्तमे च मम ख्याते पितृश्वशरयोः कुले ॥ ३०० ॥ अत्यन्तविषमो लोको यहा तद्दा प्रजल्पति । कार्याणां गहनत्वेनाकुलीभूताऽस्मि सर्वथा ॥ १ ॥ सोचे स्वामिनि ! यद्येवं तिष्ठ त्वं तत्र याम्यहम् । । सखौ मेऽपटुदेहाऽस्तीत्याख्यास्यामि तदग्रतः ॥ २ ॥ अयो कनकवत्याख्यदेवं कुरु शुभाशये ! । इत्युक्वार्पयति स्माऽस्या विमानं विरचय्य सा ॥ ३ ॥
३५७
( १ ) ज विमानारूढया पार्श्वे समागम्यं च मे निशि ।

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104