Book Title: Shantinath Charita Part 04
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
षष्ठः प्रस्तावः।
पातस्थानं तवैतस्याः कथयिष्यति निश्चितम् । पृष्टस्तया सोऽप्यवादीत् श्वोऽहं कथयितास्मि ते ॥ ७४ ॥ अथोत्थाय समायात: कुमारो निजमन्दिरम् । पुनस्तथैव तच्चैत्ये ययौ रात्रौ तया सह ॥ ७५ ॥ वीणाया वादनं तस्याः कुर्वत्याः पतितं तदा । कथञ्चिद् न पुरं पादात् कुमारणाऽऽददे च तत् ॥ ७६ ॥ तदप्यन्विष्य बहुधा सा स्वगेहं समागता । अर्पयामास तदपि मित्रस्य नृपनन्दनः ॥ ७७ ॥ हितीयेऽहनि तद्गेहे सोऽथ मित्रसमन्वितः । प्रययावुपविष्टश्च तया दत्तासने प्रभुः ॥ ७८ ॥ शास्त्रगोष्ठों क्षणं कृत्वा तया स मतिसागरः । पृष्टो निरूपितं भद्र ! किं निमित्तं त्वया वद ? ॥ ७९ ॥ सोऽथावादीनिमित्तस्य बलेन ननु वेद्माहम् । तवान्यदपि तन्वनि! नष्टं किञ्चिद् विभूषणम् ॥ ८० ॥ तत: माशङ्कचित्ताऽपि सावहित्था जगाद सा। किं तहिभूषणं नाम निमित्तन्न ! निवेदय ॥ ८१ ॥ किं त्वं स्वयं न जानासीत्यु वा भर्ताऽब्रवीत् पुनः । जानामि न पुनस्तस्य पातस्थानं स्मराम्य हम् ॥ ८२ ॥ कुमारोऽवददन्येन केनचित् कथितं मम । दूरं गतायास्त्वत्पत्नया नूपुरं च्युतमित्य हो ! ॥ ८३ ॥ तद्येन जगहे सुभु ! विजात: म मया नरः । ग्रहोतं नपुरं तच्च तस्य हस्ताद बलादपि ॥ ८४ ॥

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104