Book Title: Shantinath Charita Part 04
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 70
________________ ३५४ श्रीशान्तिनाथ चरित्रे तदा च कनकवत्या नृत्यन्त्या न्यपतद्भुवि । स्वर्ण किङ्किणीमाला वटिवा कटिसूत्रकम् ॥ ६३ ॥ शीघ्रमेव कुमारेण प्रच्छन्नं जग्टहे सका । आलोकिता न च प्राप्ता रङ्गस्यान्ते तया ततः ॥ ६४ ॥ स्वं स्वं स्थानं ययुः सर्वेऽप्यगात् कनकवत्यपि । निजावासं सचेटीका कुमारोऽपि तथैव सः ॥ ६५ ॥ सा तस्थौ स्वग्टहे तच्च विमानं संहृतं तया । रात्रिशेषे कुमारोऽपि सुष्वापागत्य मन्दिरे ॥ ६६ ॥ मतिसागरसंज्ञस्य सख्युः पुत्रस्य मन्त्रिणः । किङ्किणीमालिका साऽथ कुमारेणार्पिता प्रगे ॥ ६७ ॥ इयं भद्र ! प्रियाया मेऽर्पणीया समये त्वया | शिक्षां दत्वेति तत्पार्श्वे ययौ तेन सहैव सः ॥ ६८ ॥ अभ्युत्थानं विधायाऽस्य दत्तमासनमेतया | कुमारो न्यषदत्तत्र तस्योपान्ते सखा च सः ॥ ६८ ॥ सारिक्रीडां प्रकुर्वत्या कुमारो विजितस्तया । किश्चिद्वहणकं नाथ ! सारयेत्युदितं तंसः ॥ ७० ॥ तेनावलोकितं वक्तु ं सख्युः सोऽपि समार्पयत् । किङ्किणीमालिकां तस्याः कृष्वा निवसनान्तरात् ॥ ७१ ॥ दृष्ट्वा सोचे मदीयेयं युवाभ्यां क्षुद्रघण्टिका । क्व सम्प्राप्ता कुमारोऽथावादीत् कुत्र पपात ते ? ॥ ७२ ॥ स्थानं सम्यग् न जानामि तयेत्युक्ते नृपात्मजः । उवाच मम मित्रोऽयं महानैमित्तिकः प्रिये ! ॥ ७३ ॥

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104