Book Title: Shantinath Charita Part 04
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 68
________________ স্বীমানিনাঘবনি स्मर्तव्योऽहं त्वया भूयः परोपक्कतिकर्मठ !। इत्यु दित्वा निजं स्थानं शिष्यैः सह ययावसौ ॥ ४३ ॥ प्रक्षाल्याङ्गं कुमारोऽपि प्रविवेश निजं गृहम । सुव्वाप तत्र शय्यायां वीरवेषं विमुच्य तम ॥ ४४ ॥ हितीयदिनयामिन्या आद्ययामे गते सति । अदृश्यरूपवान् सोऽथ प्रियायाः सदनं ययौ ॥ ४५ ॥ ददर्श तत्र कनकवती चेटीहयाऽन्विताम् । एवमूचे च सा दास्यौ कियन्माना निशा हले ! ॥ ४६ ॥ ताभ्यामूचे न चाद्याऽपि पूर्यते प्रहरहयो । वर्त्तते तत्र गमनवेला स्वामिनि ! संप्रति ॥ ४७ ॥ ततः मातविलिप्ताङ्गी वस्त्रालङ्करणाञ्चिता । देवावाससमानं सा विमानं निर्ममे. क्षणात् ॥ ४८ ॥ तत्राधिरुह्य दासीभ्यां सह यावच्चचाल सा। तद् दृष्ट्वा गुण धर्मोऽपि दध्यौ तावत् सविस्मयः ॥ ४८ ॥ अहो ! विमानमनया खेचर्येव कृतं कथम् । अत्रारुह्य त्रियामायां कुत्र चेषा प्रयास्यति ॥ ५० ॥ अथवा किं विकल्पेनाऽदृश्यरूपोऽनया सह । गत्वाऽहमपि वौक्षे तद् यत् करोत्यसको खलु ॥ ५१ ॥ इति ध्यात्वा विमानैकदेशेऽध्यारुह्य सोऽचलत् । उत्तराभिमुखं तच्च गत्वा दूरमवातरत् ॥ ५२ ॥ (१) ज ञ पुरावेषं।

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104