Book Title: Shantinath Charita Part 04
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 65
________________ षष्ठः प्रस्तावः । ३४८ उत्थाय गुणधर्मोऽय प्रातःकत्यं विधाय च । प्रययौ भैरवाचार्यसमीप सपरिच्छदः ॥ ११ ॥ व्याघ्रकत्तिनिषमोऽसौ कुमारण निरीक्षितः । लगयित्वा शिरो भूमो भक्तिपूर्व च वन्दितः ॥ १२ ॥ ससम्भमः स योगीन्द्रो दर्शयित्वा स्वमासनम् । त्वमप्यपविशाऽत्रेति कुमारं समभाषत ॥ १३ ॥ विनीतात्मा कुमारस्तं प्रत्यूचे भगवन् ! न मे । गुरोः समासने युक्तमुपवेष्टुं कदाचन ॥ १४ ॥ खपदात्युत्तरीयेऽथोपविश्यैवं जगाद सः। । प्रभो ! त्वया कतार्थोऽहं कृतोऽभ्येत्य पुरे स्वयम् ॥ १५ ॥ योग्य प्यचे कुमार ! त्वं मान्योऽसि मम सर्वदा । परं निष्किञ्चनोऽस्माष स्वागतं किं करोमि ते ? ॥ १६ ॥ कुमारोऽप्यब्रवीदाशीर्वाद एव भवादृशाम् । स्वागतस्य क्रियाऽस्मा कमित्युक्त सोऽवदत् पुन: ॥ १७ ॥ भक्तिः प्रेम प्रियालापः संमानं विनयस्तथा । प्रदानेन विना लोके सर्वमेतद् न शोभते ॥ १८ ॥ कुमार: पुनरप्यचे सम्यग्दृष्टयावलोकनम् । सम्यगानाप्रदानं च विश्राणनमिदं हि वः ॥ १८ ॥ अथाऽभाषिष्ट योगीन्द्रो भद्र ! मन्त्रोऽस्ति मे वरः । चक्रे तस्याऽष्ट वर्षाणि मया जापपरिश्रमः ॥ २० ॥ तस्य विघ्नप्रतिघातं यद्ये करजनों भवान् । करोति तदयं सर्वः प्रयास: सफन्लो भवेत् ॥ २१ ॥

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104