Book Title: Shantinath Charita Part 04
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 53
________________ षष्ठः प्रस्तावः ३३० चक्रं यक्षसहस्रेणाधिष्ठितं तदयो गतम् । पूर्वस्यां मागधतीर्थासन्न वेलाकुले क्रमात् ॥ ८५ ॥ कृत्वा निवेशं सेनायास्तत्र चक्री शुभासने । निषसादाभिमुखोऽस्य ततस्त दनुभावतः ॥ ८६ ॥ अधोभागे जलस्यान्ते हादशयोजनस्थिते । मागधाख्य कुमारस्य चलति स्मासनं तदा ॥ ८७ ॥ ददर्शावधिना शान्तिं स जिनं चक्रवर्तिनम् । षटखण्डभरतक्षेत्रसाधनोद्यतमागतम् ॥ ८८ ॥ दध्यो चैवं मयाऽऽराध्योऽन्योऽपि चक्री जिनस्त्वयम् । विशेषेण यतो भक्तिमिन्द्रा अप्य स्य कुर्वते ॥ ८८ ॥ ततः सुवस्त्राण्यादाय सोऽनाभरणानि च । आगत्य ढोकयामास प्रभोरेवं शशंस च ॥ ८ ॥ तवाज्ञाकारकः स्वामिन् ! पूर्वदिक्पालकोऽस्म्यहम् । आदेष्टव्यं सदा कृत्यं स्वकिङ्करसमस्य मे ॥ १ ॥ भगवानपि सम्मान्य दैवतं विससर्ज तम् । याम्यां प्रतिदिशं सोऽथ चलति स्म सुदर्शनः ॥ ८२ ॥ तीर्थस्य वरदामस्यासन्ने गत्वा स्थितश्च सः । तस्याधिष्ठायकं शान्तिस्तथैवासाधयत् प्रभुः ॥ ८३ ॥ गत्वाऽथ वारुणीमाशां प्रभासस्याधिदैवतम् । साधयित्वोत्तरस्यां तु ययो सिन्धुनदीतटे ॥ ८४ ॥ तनाऽपि पूर्वविधिना साधिता सिन्धुदेवता। आगत्याऽऽढोक यत् स्नानपीठं रत्नमयं विभोः ॥ ८५ ॥ ४३

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104