Book Title: Shantinath Charita Part 04
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 51
________________ षष्ठः प्रस्तावः ३३५ निजाङ्गलग्नमखिलं भूषणं मुकुट विना । आसप्तसन्ततिं ताभ्यो वृत्तिं च प्रददावसी ॥ ६३ ॥ ततश्च दापयन् दानमनिवारितशात्रवम् । हृष्टः प्रवर्तयामास सुतजन्ममहोत्सवम् ॥ ६४ ॥ हादशेऽय दिने गजा बन्धुवर्गमशेषकम् । भोजयित्वा गौरवेण तत्समक्षमदोऽवदत् ॥ ६५ ॥ बभूवाऽशिवशान्तियंदस्मिन् गर्भागते जिने । तटस्य सुतरत्नस्य शान्ति माऽस्तु सुन्दरम् ॥ ६६ ॥ सर्वस्याऽपि जनस्यैतत् सञ्जातं नाम सम्मतम् । रम्यं सह णनिष्यन्नं चेतसाग्रे विचिन्तितम् ॥ ६७ ॥ शक्रसंक्रमिताङ्ग ठाऽमृताहारस्ततः प्रभुः । विशिष्टरूपलावण्यसम्मन्नो ववृधे क्रमात् ॥ ६८ ॥ पाणिपादतले यस्यारक्त लक्षणलक्षिते । स्निग्धताम्रपृथत्तुङ्गा नखाश्च मुकुरोपमा: ॥ ६८ ॥ पादो कुर्मोन्नतावणीजङ्घाकारे च जविके । जरू करिकरप्रख्ये विस्तीणं च कटीतटम् ॥ ७० ॥ गम्भीरदक्षिणावर्तो नाभिर्मध्यं च वज्रवत् । पुरद्वारकपाटाभं दृढं वक्षःस्थलं तथा ॥ ७१ ॥ बाहू पुरार्गलातुल्यौ ग्रीवा कम्बसमा वरा। बिम्बोपमो चाधरोष्ठौ कुन्दकुड्मलवटु हिजाः ॥ ७२ ॥ उत्तुङ्गः सरलो नाशावंशः सज्जनवृत्तवत् । पद्मपत्रोपमे नेत्रे अष्टमीन्दुसमालिकम् ॥ ७३ ॥

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104