Book Title: Shantinath Charita Part 04
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
पञ्चमः प्रस्तावः।
.
३०५
प्रविश्य स करो यावत् शय्यां पस्पर्श यामि कीम् । जघान वत्सराजोऽपि तं तापन्निशितासिना ॥ १ ॥ देवतायाः प्रभावेण स हस्तो नाऽपतद्भुवि । पपात चौषधिहन्दं वेदना त्ततः क्षणात् ॥ २ ॥ धमौषधीसंरोहिण्यो कुमारः सोऽग्रहीदिमे । देवतायाः कर: सोऽथ निर्ययो वासमन्दिरात् ॥ ३ ॥ वत्स ! हा वञ्चितास्मीति शब्दं श्रुत्वाथ दैवतम् । हे दासि ! कुत्र यासोति जल्पंस्तां किञ्चिद न्वगात् ॥ ४ ॥ ततश्चोहीणखङ्गं तं दृष्ट्वा पुण्येन संयुतम् । देवता नश्यति स्मास्याऽपकारं कर्तुमक्षमा ॥ ५ ॥ वलित्वा वत्सराजोऽपि काष्ठमुत्लार्य तल्पतः । तत्र यावदुपाविक्षत्तमो तावत् क्षयं ययौ ॥ ६ ॥ सूरोऽपि तस्य शूरस्य प्रतापमिव वीक्षितुम् । तूर्णमारोहति स्मोच्चैरुदयाचलमूर्धनि ॥ ७ ॥ अत्रान्तरे 'कुमारी सा जजागार ददर्श च । . कुमारमक्षताङ्गं तं ततो हृष्टा व्यचिन्तयत् ॥ ८ ॥ नूनं कोऽपि प्रभावोऽस्य पुंरत्नस्य भविष्यति । यदयं संस्थितो नो मेऽथवा भाग्यानि जाग्रति ॥ ८ ॥ यद्यसौ मम भर्ता स्याभोगान् भुञ्ज ततो ध्रुवम् । अन्यथा विषयाणां मे निवृत्तिरिह जन्म नि ॥ १० ॥
(१) ख ज कुमारं तं दृष्ट्वा तल्पगतं तदा ।
साऽत्यन्तं विस्मयपरा प्रहृष्टैवं व्यचिन्तयत् ॥ ८॥
३९

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104