Book Title: Shantinath Charita Part 04
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 45
________________ अर्हम् अथ षष्ठः प्रस्तावः । इतश्चात्रैव भरते युगादिजिनसन्ततिः । कुरुरित्यभवत् पूर्वं कुरुदेशस्तदाख्यया ॥ १ ॥ हस्तीति तत्सुतस्तेन निर्ममे 'हस्तिनापुरम् । गृहाहरचनाहारि तुङ्गप्राकारगोपुरम् ॥ २ ॥ बहुसूरिकृतावासं शोभितं बहुमङ्गलैः । अपूर्वगगनाकारं तत्परं भूरि सूरवत् ॥ ३ ॥ विश्वसेनो नृपस्तत्र शौर्योदार्यादिसद्गुणैः । विख्यातो जगतीपौठे विश्वसेन इवाभवत् ॥ ४ ॥ पुण्यलावण्यरुचिराऽचिरादेवीति तप्रिया । सर्वालङ्कारवरयाऽलङ्कृता च रतिश्रिया ॥ ५ ॥ इतो भाद्रपदे कृष्णसप्तम्यां भरणीगते । चन्द्रे सर्वग्रहेषूच्चस्थानस्थेषु निशान्तरे ॥ ६ ॥ च्यत्वा सर्वार्थतो मेघरयस्यात्मायुषः क्षये । अवतीर्णोऽचिरादेव्याः कुक्षौ मरमि हंसवत् ॥ ७ ॥ तस्मिंश्च ममये देवी सुखसुप्ता चतुर्दश । महास्वप्नान् ददशैतानीषज्जागरिता सका ॥ ८ ॥ (१) ङ ज ज द हास्तिनं पुरम् । ४२

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104