Book Title: Shantinath Charita Part 04
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 48
________________ श्रीशान्तिनाथचरित्र (त्रिभिर्विशेषकम् ) अत्रान्तरे षडधिक पञ्चाशट् दिकुमारिकाः । अवधिज्ञानतो ज्ञात्वा जिनजन्म समाययुः ॥ ३१ ॥ अष्टावेयुरधोलोकाट गजदन्ताद्रिकन्दतः । अष्टौ च नन्दनवनकूटाट् मेरुनगस्थितात् ॥ ३२ ॥ प्रत्येकं रुचकहौपादष्टावष्टौ कुमारिका: । एयुर्दिग्भ्यश्चतसृभ्यश्चतस्रश्च विदिग्गताः ॥ ३३ ॥ मध्यमाद् रुचकहोपाचतस्त्रश्च दिगङ्गनाः । एवं सम्मिलिताः सर्वाः षटपञ्चाशद् भवन्ति ताः ॥ ३४ ॥ संवर्तवातजलद कृति दर्पणधारिताम् । भृङ्गारतालवन्तानां चामराणां च धारणम् ॥ ३५ ॥ दौपिकाधारणं रक्षाविधानप्रभृतीनि च । चक्रिरे सूतिकर्माणि क्रमेणवं जिनस्य ता: ॥ ३६ ॥ अत्रान्तरे सुरेन्द्र स्य चचालाचलमासनम् । सम्प्रयुक्तावधिज्ञानो जिनजन्य विवेद सः ॥ ३७॥ आज्ञाप्य विदशं नैगमेषिणं हरिणाननम् । ज्ञापयामास तद्देवान् घण्टास्फालनपूर्वकम् ॥ ३८ ॥ सर्वे मंना देवास्ते हरेरन्तिकमाययुः । विमानं कारयामास प्रधानं पालकेन सः ॥ ३८ ॥ तत्राधिरुह्य सपरीवारोऽलङ्कारशोभितः । आगादनुपम श्रीको जिनजन्मग्रह हरिः ॥ ४० ॥

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104