Book Title: Shantinath Charita Part 04
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
श्रीशान्तिनाथचरित्रे
मातङ्गवषहर्यक्षाः साभिषेकेन्दिरा तथा । पुष्यमालेन्दु सूर्यौ च ध्वजकुम्भौ सरोवरम् ॥ ८ ॥ सागरश्च विमानं च रत्नानां मञ्चयस्तथा । निर्धमो हुतभुक् चेति स्वप्ना आगमभाषिताः ॥ १० ॥ दृष्ट्वा स्वप्नानिमान् देवी जातनिद्राक्षया क्षणात् । गत्वापराजमाचख्यो प्रमोदभरनिर्भरा ॥ ११ ॥ प्रहृष्टमुखपद्मोऽथ जगाद जगतीपतिः । सर्वलक्षणसम्पूर्णो भावी देवि ! तवात्मजः ॥ १२ ॥ प्रसन्नवदना धर्मचिन्तया राविशेषकम् । अतिक्रमयति स्मैषा कुस्वप्नाला क शशिता ॥ १३ ॥ मञ्जातेऽथ प्रगऽष्टाङ्गनिमित्तज्ञानपण्डिताः । भूभुजाष्टावुपाध्याया आहूता निजपूरुषैः ॥ १४ ॥ कृतमङ्गलोपचाराः सम्प्राप्तास्ते नृपोकसि । दत्तासनेषपविष्टाचार्चिताः कुसुमादिभिः ॥ १५ ॥ सम्वप्नानां फलं राज्ञा पृष्टाश्चैवं बभाषिरे । अस्मच्छास्त्रे विचत्वारिंशत् स्वप्ना जगतीपते ! ॥ १६ ॥ महास्वप्ना अपि त्रिंशत् स्यः सर्वे ते दिसप्ततिः । वोक्षिता येऽचिरादेव्या महाम्वना इमे स्फुटम् ॥ १७ ॥ अहंतां चक्रिणां चैतान् स्वप्नान् पश्यन्ति मातरः । मतार्धचक्रिणां चाम्बा चतुरः सौरिणां तथा ॥ १८ ॥ प्रत्यर्ध चक्रिणां त्रीश्चान्येषामुत्तमजन्मिनाम् । एकै कमम्बिकाः स्वप्नं पश्यन्त्येषां हि मध्यत: ॥ १८ ॥

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104